SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२८ शक्रोऽप्यशक्तस्तव पुण्यकीर्तेः स्तुत्यां प्रवृत्तः किमु मादृशोऽज्ञः । तथापि भक्त्या स्तुतपादपद्मो ममार्य! देयाः शिवतातिमुच्चैः ॥५॥ इति संभवजिनस्तवनम् । अथाऽभिनन्दनस्तवः। गुणामिनन्दादभिनन्दनो भवान् दयावधूं क्षान्तिसखीमशिश्रियन् । समाधितत्रस्तदुपोपपत्तये द्वयेन नैर्ग्रन्ध्यगुणेन चाऽयुजत् ॥ १॥ अचेतने तत्कृतबन्धुजेऽपि वा ममेदमित्याभिनिवेशिकाग्रहात् । प्रभङ्गुरे स्थावरनिश्चयेन च क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥ २॥ क्षुदादिदुःखप्रतिकारतः स्थितिर्नचेन्द्रियार्थप्रभवाल्पसौख्यतः ।। ततो गुणो नास्ति च देहदेहिनोरितीदमित्थं भगवान जिज्ञपत् ॥३॥ जनोऽतिलोलोऽप्यनुबन्धदोषतो भयादकार्येष्विह न प्रवर्तते । इहाऽप्यमुत्राप्यनुबन्धदोषवित् कथं सुखे संसृजतीति चाऽब्रवीत्।।४।। स चानुबन्धोऽस्य जनस्य तापकस्तृषोभिवृद्धिः सुखतो न च स्थितिः। इति प्रभो लोकहितं यतो मतं ततो भवानेव गतिः सतां मतः॥५॥ इति अभिनन्दनस्तवः। बन्धाद्युपदेशः कृतोऽतस्त्वमेवाऽवादीरित्यादिकथमुक्तमिति चेत् , तत्र मते बन्धमोक्षादेरेवाऽसम्भवात् । एतदेवाह-बन्धश्च मो. जीवस्य कर्मणा संश्लेषो बन्धः वि. श्लेषो मोक्षः । चकारः परस्परसमुच्चये, तयोर्बन्धमोक्षयोः हेतुः, कः बन्धस्य बन्धहेतुर्मिथ्यात्वादि, मोक्षस्य तु सम्यग्दर्शन... ... ... ... ... ... १ स्तवनान्येतानि समन्तभद्राचार्यविहितानि मूलमात्राणि चतुर्विंशतिः सर्वाण्यप्युपलभ्यन्ते, किन्तु तेषां वृत्तिरेतावत्येव प्राप्ता तेन नाऽन्यानि स्तवनानि लिखितानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy