________________
२२६
अद्यापि यस्याऽजितशासनस्य सतां प्रणेतुः प्रतिमङ्गलार्थम् । प्रगृह्यते नाम परं पवित्रः स्वसिद्धिकामेन जनेन लोके ॥ २॥ यः प्रादुरासीत् प्रभुशक्तिभून्ना भव्याशयाली नकलङ्कशान्त्यै । महामुनिर्मुक्तघनोपदेहो यथारविन्दाभ्युदयाय भावान् ॥ ३ ॥ येन प्रणीतं पृथुधर्मतीर्थ ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् । गाङ्गं हृदं चन्दनपङ्कशीतं जगप्रवेका इव धर्मतप्ताः ॥ ४ ॥ स ब्रह्मनिष्ठः सममित्रशत्रुर्विद्याविनिर्वान्तकषायदोषः । लब्धात्मलक्ष्मीरजितो जितात्मा जिनः श्रियं मे भगवान्विधत्ताम् इति अजितजिनस्तवनम् ।
"
विन्दं यस्य इत्थंभूतो बन्धुवर्गः, किं ? नाम । कथम् ? अवन्ध्यं चकार ॥१॥ अद्यापि यस्याजित • अद्यापि अधुनैव । तस्य किंवि० अजितशासनस्य, सतां प्रणेतुः सतां भव्यानां प्रणेतुः सन्मार्गप्रवर्तकस्य नाम प्रगृह्यते उच्चार्यते, प्रतिमं मङ्गलं मङ्गलं प्रति प्रतिमङ्गलार्थं परं पवित्रं, केन ? जनेन । किंविशिष्टेन ? खसिद्धिकामेन स्वस्य सिद्धिर्वाञ्छितार्थ: तेन । कस्मिन् ? लोके ॥ २ ॥ यः प्रादुरासीत् ०, प्रादुरासीत् प्रादुर्भूतवान् किमर्थम् ? भव्याशयालीन० भव्यानामाशयश्चित्तं तत्र लीनो लग्नः स चाऽसौ कलङ्कश्चाज्ञानं तस्य शान्त्यै नव्यबोधार्थम्, केन ? प्रभुशक्ति० उपकारें कर्तुं समर्थो भवतीति प्रभुः तस्य शक्तिर्वाणी यया तेषामुपकारं कर्तुं शक्नोति तस्या भूमिर्जीवाच्च स्वरूपाणां माहात्म्यविशेषः, कथंभूतः । महामुनिः ? प्रत्यक्षज्ञानी । क इव कस्मै ? यथाऽरविन्दाभ्युदयाय भाखान् सूर्यः ॥ ३ ॥ येन प्रणीतं ०, धर्मतीर्थं प्राप्य जना दुःखं जयन्ति, कथंभूतं ! प्रणीतम्, केन ? येन, पुनः पृथु, पुनर्ज्येष्ठं । यथा गाङ्गं हृदम्० घर्मतप्ता ! गजप्रवेका जयन्ति ॥ ४ ॥ स ब्रह्मनिष्ठः ० स भगवान् ब्रह्मनिष्ठः ब्रह्मणि ज्ञाने निष्ठा परिसमाप्तिर्यस्य ०, तथा सममित्रशत्रुः समाना मित्रशत्रवो यस्य सः, विद्याविनिर्वा• विद्यया परमागमज्ञानं विशेषेण निर्वान्ताः प्रोक्ताः कषायदोषा येन सः, अत एव ब्रह्मनिष्ठः समशत्रुमित्रः, सः कथंभूतः ? लब्धात्मलक्ष्मीः लब्धा आत्मलक्ष्मीर्ज्ञानं येन सः, पुनः जितात्मा जित आत्मा येन स जिनः श्रियं मे विधत्तां देयात् ॥ ५ ॥
इति अजितजिनस्तवावचूरिः ।
Jain Education International
For Private & Personal Use Only
O
www.jainelibrary.org