SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२५ स विश्वचक्षुर्वृषभोऽर्चितः सतां समग्रविद्यात्मवपुर्निरञ्जनः । पुनातु चेतो मम नाभिनन्दनो जिनो जितक्षुल्लकवादिशासनः ॥ ५ ॥ इति ऋषभजिनस्तवनम् । अथाऽजितजिनस्तवनम् । यस्य प्रभावात्रिदिवच्युतस्य क्रीडास्वपि क्षीबमुखारविन्दः। - अजेयशक्तिर्भुवि बन्धुवर्गश्चकार नामाऽजित इत्यवन्ध्यम् ॥१॥ वान् इत्याह-अजसा परमार्थेन बभूव च ब्रह्मपदामृते०, ब्रह्मपदं मोक्षस्थान तस्याऽमृतमनन्तसुखं तस्येश्वरः खामी ॥ ४ ॥ स विश्वचक्षु०, प्रागुक्तविशेषणविशिष्टो भगवान् विश्वचक्षुः चक्षुरिव चक्षुः केवलज्ञानं तस्य । किंनामाऽसौ ? वृषभः? वृषो धर्मः तेन भाति शोभते स चाऽऽभाति प्रकटीभवति यस्मादसौ वृषभः । कथंभूतः ? अर्चितः पूजितः। केषाम् ? सताम् , सकलकर्मक्षयात्पूर्वमसौ जडो भविष्यतीति बुद्ध्यादिविशेषेण गुणानामत्यन्तोच्छेदादिति योगः, चैतन्यमात्ररूप इति सांख्याः , अत्राऽऽह-समग्रविद्यात्मवपुर्निरजनः०, अञ्जनं ज्ञानावरणीयादिकर्म तस्मानिःक्रान्तः सन् सकलविद्यात्मवपुर्भवति न जडोऽपि चैतन्यमात्रखरूपः, स इत्थंभूतः किं करोतु ? पुनातु चेतः । कस्य ? मे मम, नाभेर्नन्दनः कथंभूतः ? जितक्षुल्लकवादिशासनः। क्षुल्लकानि लघूनि परवादिशासनानि तानि जितानि येन ॥५॥ . इति श्रीआदिनाथजिनस्तवनावचूरिः । अवचूरिः। वृत्तिः यस्य प्रभावात् बन्धुवर्गः अजेयशक्तिः भुवि चकार कृतवान् । यस्य, किंविशिष्टस्य, त्रिदिवच्युतस्य, पुनः क० ? क्षीबमुखारविन्दः क्षीब शमदं मुखार स्तो. स. १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy