________________
२२४
-
-
प्रबुद्धतत्त्वः पुनरद्भुतोदयो
ममत्वतो निर्विविदे विदां वरः ॥ २ ॥ विहाय यः सागरवारिवाससं
वधूमिवेमां वसुधां वधू सतीम् । मुमुक्षुरिक्ष्वाकुकुलादिरात्मवान्
प्रभुः प्रववाज सहिष्णुरच्युतः ॥ ३ ॥ स्वदोषमूलं स्वसमाधितेजसा
निनाय यो निर्दयभस्मसाक्रियाम् । जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा
बभूव च ब्रह्मपदामृतेश्वरः ॥ ४ ॥ खतः, ममेति षष्ठयन्तप्रतिरूपको निपातः, ममेत्यस्य भावो ममत्वं तस्मात् ततः । इत्थंभूतो भगवान् । अत एवाऽसौ विदां वरः वेदिनां विपश्चितां वरःप्रधानः ॥२॥ स किं कृतवानित्याह-विहाय यः०, यो निर्विष्णो नाभिनन्दनः स प्रवद्वाज, किं कृत्वा ? विहाय त्यक्त्वा, काम् ? वसुधावधूम् । वसुधा पृथ्वी सैव वधूः स्त्री तामरकादिवसुधा : तेन त्यक्ता भविष्यतीत्याह-इमां दृश्यमानां, किं वि.? सागरः समुद्रस्तस्य वारि जलं तदेव वासः परिधानं यस्यास्ताम् , पुनरपि कथं सती? अनेनाभुक्तां, कामिव? वधूमिव, यथा निर्विण्णेन भगवता सती वधूः अन्तःपुरस्त्री त्यक्ता तथा साऽपि इत्याह-किंविशिष्टोऽसौ तां विहाय प्रववाजेत्याहमुमुक्षुर्मोक्षमिच्छुः, पुनः कथम् ? इक्ष्वाकुकुलादिः, पुनः क.? आत्मवान वश्यन्द्रियः, अत एव प्रभुः स्वतः प्रभुः । सहिष्णुः परीषहैरपराजितः, अत एवाऽ. च्युतः परीषहेऽपि नियमव्रतादनपसृतत्वात् ॥ ३ ॥ प्रव्रज्यामादाय भगवान् किं कृतवान् इत्याह-खदोषमूलं०, खस्य दोषा रागादयस्तेषां मूलं कारणं घातिकर्मचतुष्टयं तत् निनाय नीतवान् , निर्दयभस्म०, कात्स्येन भस्मकरणं भस्मसातू. क्रिया । केन? स्वसमाधि०, समाधिः शुक्लध्यानम् स एव तेजोऽग्निस्तेन जगाद तत्त्वं कथितवान् , किं ? तत्त्वं जीवादिस्वरूपं, कस्मै ? जगते प्राणिगणाय, कथंभूताय ? अर्थिने तत्त्वज्ञानाभिलाषेण भगवत्प्ररतारकत्वेनाऽसौ तत्त्वं कथित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |