SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२३ अथ ऋषभजिनस्तवनम् । स्वयंभुवा भूतहितेन भूतले समञ्जसज्ञानविभूतिचक्षुषा । विराजितं येन विधुन्वता तमः क्षपाकरेणेव गुणोत्करैः करैः ॥ १ ॥ प्रजापतिर्यः प्रथमं जिजीविषुः शशास कृष्यादिषु कर्मसु प्रजाः। अवचूरिः। खयं परोपदेशमन्तरेण मोक्षमार्गमवबुध्याऽनुष्ठाय चाऽनन्तचतुष्टयरूपतया भवतीति खयंभूस्तेन खयंभुवा विराजितं शोभितम् , क ? भूतले भूमौ, कथंभूतेन ? भूतहितेन, पुनः कथं०? समञ्जसज्ञान० सं संपूर्ण अञ्जसं सम्यक् ज्ञानं च । विशिष्टा परमाऽतिशयप्राप्ता भूतिरुत्पत्तिः विभूतिः सकलपदार्थसाक्षात्कारित्वश्रीः सैव चक्षुर्यस्य तेन । किं कुर्वता? विधुन्वता तमः । तमो ज्ञानावरणादिकर्म तद् विशेषेण निराकुर्वता । कैः ? करैः, करा रश्मयः सम्यग्दर्शनादयः अत्र गृह्यन्ते तैः। किं० ? गुणोत्करैः गुणाः खर्गापवर्गप्राप्तिहेतुखादयस्तेषामुत्करः समूहो येषां तैः । केनेव? तमोविधुन्वता? क्षपाकरेणेव क्षपाकरश्चन्द्रस्तेनेव ॥ १॥ प्रजापतिर्यः०, प्रजानां लोकानां पतिः स्वामी प्रथमं तत्पतीनामादौ पश्चात् शशास सृष्टवान् , काः? प्रजाः, कथंभूताः ? जिजीविषुः जीवयितुमिच्छुः, क? कर्मसु, केषु ? कृष्यादिषु, कृषिरादिर्येषां कर्मणां सेवादीनां तानि तथोक्तानि तेषु, कथंभूतः सनसौ ताः शशासेत्याह-प्रबुद्धतत्त्वः प्रबुद्धं ज्ञातं प्रजानां तत्त्वं खरूपं येन, सहजविशिष्टमतिश्रुतावधिज्ञानेन प्रज्ञाततददृष्टं तत्फलमन्यच्च सर्वे ज्ञात्वा, इदमनेनेत्थं कर्तव्यमिदं वा नेति योजयति, ताश्च योजयिखा पुनः पश्चात् प्रबुद्धतत्त्वो ज्ञातहेयोपादेयस्वरूपः, अद्भुतोदयः अद्भुतोऽचिन्त्य उदयः शक्रादितोपि विभूतिविशेषो यस्य सः, इत्थंभूतो भगवान् निर्विवेद निर्विण्णवान्, कस्मात् ? मम. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy