________________
२१८
अथ श्रीसुमतिजिनस्तुतिः ॥५॥
सुमते सुमतेऽसुमतां सुतरां सुगतिप्रद ! मेघमहीशसुत!। तव दर्शनमत्र मनोज्ञमपाकुरुताद्दुरितं चिरकालभवम् ॥ १॥ विततान यदीयजनुःसुमहं शिखरे तपनीयगिरेः प्रमदात् । शतयज्ञततिस्तपनीयघटैस्तमहं प्रणमामि जिनेशगणम् ॥ २ ॥ भगवन्नवताद् भवतो वचनं भवतो भवतो भवभीतिहरम् । कुमतोत्कटहस्तिमृगेन्द्रसमं दुरितव्रततिक्षयसामभवम् ॥ ३ ॥ समवाम्बुददेहरुचिर्भयतो मनुजान बत कालि सदा सदया। अवनीधरभृद्गदया सहिता सहिता महिताऽमलदन्तततिः ॥४॥
इति सुमतिजिनस्तुतिः ॥ ५ ॥
अथ पद्मप्रभजिनस्तुतिः ॥ ६ ॥
पद्मप्रभः प्रतिदिनं प्रददातु पद्मां : प्रौढप्रमादपवनाशनपन्नगारिः । श्रीमद्धरक्षितिपतेः कुलमेरुकल्पो
रक्ताङ्कभूघनरुची रुचिरप्रभावः ॥ १ ॥ संसारनीरनिधिपीतसरिज,दीशा
'स्तीर्थङ्कराः शुभभरं मम ते दिशन्तु । सन्त्यज्य ये नृपरमां गजवाजियुक्तां मुक्तिश्रिये तृणमिवाददिरे तपस्याम् ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org