________________
२१९
मूम वहे जिनवरागमपुण्डरीकं __ सद्भङ्गजालदलसञ्चयपूरिताङ्गम् । सप्तप्रधाननयनालविराजमानं
विद्वत्षडभिसुखदं पदवारिसंस्थम् ।। ३॥ गौरी सुरी मम सदा विदधातु भद्रं
कुन्देन्दुशङ्खरजताचलचारुकान्तिः । प्रध्वस्तदोषनिचया निचिता गुणौधैः
सारङ्गशावनयना जयदायिनीयम् ॥ ४ ॥ ___इति पद्मप्रभजिनस्तुतिः ॥ ६॥
अथ सुपार्श्वजिनस्तुतिः॥७॥
ccccccccesसुपार्श्व ! तीर्थनायक! कुरुष्व मे मनोगृहे । निरन्तरं मुदास्पदं शिलीमुखो यथाम्बुजे ॥१॥ स्वयंभुवां व्रजं सदा नमामि नम्रनाकिपम् । . समस्तसौख्यदायकं निरस्तपञ्चसायकम् ॥ २ ॥ जिनेन्द्र! राजते तवाऽऽगमो गमावलीयुतः। स्फुरन्नयाब्जभास्करः कुवादिदन्तिकेसरी ॥ ३ ॥ ममाश्वकल्पनायकः करोतु मङ्गलावलीम् । त्रिकालवित् सुपार्श्वपत्सरोजहंससन्निभः ॥ ४ ॥
इति श्रीसुपार्श्वजिनस्तुतिः ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org