________________
२१७
श्रीवीतरागागमवीचिमालिपुत्रीहृदीशाग्रज एष नित्यम् । अज्ञानभूमीधरमाशु सप्तनयस्फुरद्वधरो निहन्तु ॥ ३॥ हर्षप्रकर्ष मम मानसीयं दद्याद् सुरी राजमरालयाना । वजं करे वारिजनेत्रयुग्मा विद्युल्लतागात्ररुचिर्दधाना ॥ ४ ॥
इति शम्भवजिनस्तुतिः ॥ ३ ॥
S824
अथाऽभिनन्दनजिनस्तुतिः॥४॥ वन्देऽभिनन्दनजिनं जनरञ्जनं तं
श्रीसंवरान्वयसुरालयवज्रपाणिम् । सावद्ययोगविरतं रततोयवाह
प्रोज्जासनोद्धतसमं रणमाप्तसातम् ॥ १॥ भव्या जिनेश्वरगणं श्रयत प्रकामं । यूयं क्षमारसपय:सरिदीशचन्द्रम् । श्रेयस्करं सुकृतिनां नतकन्धराणां ___ यं देवताधिपतयः प्रणमन्ति शश्वत् ॥ २॥ सम्यग्दृशां जिनवरागमसत्कुमारो
हर्ष चिनोतु सुतरां प्रियवाक्यसारः। रम्यस्वरः सुगतिदर्शनदायिदेहः
स्फूर्जद्गुणावलियुतो जगति प्रतिष्ठः ॥ ३ ॥ वनाङ्कशी सकलशर्मविधायिनी सा .
पुंसां सुखं प्रवितनोतुतरां मृगाक्षी । याऽनेकपं श्रितवती दधती कराभ्यां दम्भोलिमङ्कुशमलं च मरालभासम् ॥ ४ ॥
इस्वमिनन्दनजिनस्तुतिः ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org