________________
२१६
चक्रेश्वरी सा मम मङ्गलालीमहर्निशं मङ्क सुरी तनोतु । सूरीश्वरानन्दगुरोर्गणे या समीहितं राति सुहंसवाणी ॥४॥
इति श्रीऋषभदेवस्तुतिः ॥ १॥
अथ श्रीअजितजिनस्तुतिः ॥२॥
नमाम्यहं श्रीविजयाङ्गजातं समीहितोत्सर्जनपारिजातम् । उन्निद्रहेमाम्बुजचारुकान्ति सौवाननश्रीजितशुभ्रकान्तिम् ॥१॥ तमाप्तसङ्घातमहं वहामि श्रीखण्डकाश्मीरजपुष्पमुख्यैः।। प्रचण्डमार्तण्डविमानकान्ति यद्धर्मचक्रं गगने चचाल ॥ २ ॥ श्रीद्वादशाङ्गीत्रिदशापगा या सर्वज्ञगौरीजनके प्रशस्ता । मुखाब्जशोणात् प्रससार विश्वे निःसृत्य सा कर्ममलं जहातु ॥३॥ श्रीरोहिणी सा विदधातु भद्रं शरीररोचिर्जितरोहिणीशा । सद्रोहिणीनन्दनगौरकीर्तिः संरोहिणी सर्वतमोभरेषु ॥ ४ ॥
इति श्रीअजितजिनस्तुतिः ॥ २ ॥
अथ श्रीशम्भवजिनस्तुतिः॥३॥
अभिष्टुमः शम्भवतीर्थराज नमन्नरामर्त्यसुराधिराजम् । जितारिसन्ताननभोनभोगं सम्प्राप्तकैवल्यवशोपभोगम् ॥ १ ॥ जिनोत्तमास्ते सततं समग्रा रक्षन्तु संसारभयान्मनुष्यान् । यद्दर्शनात् कल्कगणाः प्रणाशं प्रयान्ति मेघादिव वेणुवाराः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org