________________
२०२
यद्देहशोभाविजिता गुणेन चन्द्रप्रभा भासु रराज केन!। जीया नत ! श्रीजिनचन्द्र ! स त्वं चन्द्रप्रभाभासुरराजकेन ॥८॥ भाव्यं यदाज्ञाविमुखेन खेलन्मुदा रमायामयशोधनेन । तेन त्वया श्रीसुविधे सुखी स्यामुदारमायामयशोधनेन ॥ ९॥ येनापि देहातिडम्बरेण निष्कोपमा नन्दनशीतलस्य । तस्योज्वलं क स्तवनेन वृत्तं निष्कोपमानन्द न शीतलस्य ॥१०॥ श्रेयांस ! यस्ते नमने समोदं मनोरमाभोगतमस्ततान । लब्धोदयं चुम्बति सद्गुणाली मनोरमा भोग तमस्तता न ॥ ११ ॥
चन्द्रप्रभा यद्देहनिष्कलङ्ककान्त्या सकलङ्कृत्वाद्विजिता, केन? नैर्मल्यगुणेन, भासु शुशुमे? न केनापीत्यर्थः। हे चन्द्रप्रभ ! स त्वं जीयाः हे नत, केन? आसमन्तात् शरीराभरणभासुरनृपतिसमूहेन । यदुक्तं "राजा तु पार्थिवे निशाकरे प्रभौ शक्ते” इति, तेन । यद्वा आभाप्रधानाः सुरा आभासुरास्तेषां राजकेन ॥८॥ यदाज्ञापराङ्मुखेन नरेण सांसारिकसुखरमायां विलसन्ती चित्तप्रीतिर्यस्य तेन खेलन्मुदा भाव्यमकश्यं भूयते । कीदृशेन? न विद्यन्ते यशोधनानि यस्य तेन तथा। अथवा यशो माहात्म्यादिभेदात् षड्विधम् । यदुक्तमुणादिवृत्तौ "यशो माहात्म्यं सत्वं श्रीः ज्ञानं प्रतापः कीर्तिश्चेति" ततस्तदेव धनमस्य स तथा, तदभावादयशोधनः तेन त्वयाऽहं सुखी भवेयम् । कीदृशेन? उदारमायैव महाक्लेशहेतुत्वादामयस्तं शोधयत्यपनयति से उदार० तेन ॥ ९॥ येन देहरुच्याऽम्बरेण सुवर्णतुलाऽपि प्राप्ता तस्य शीतलस्य मेरुप्रथममेखलास्थितं नन्दनं वनम् , प्रशमपात्रत्वात्तद्वत् । शीतलस्याऽपगततापस्य । कः पुमान् , स्तोत्रेण वृत्तं चरित्रम् । कीदृशम् ? निष्कोपं प्रभोर्नन्दनशीलत्वादपगतरोषदोषतापम् । अदुबन्धने इति वचनात् आनन्द बबन्ध न नैव ? अपि तु सर्वः कोऽपि ॥ १० ॥ यस्तव नमने मनो ननाम विस्तारयामास, किंभूतः ? रामा लक्ष्मीः तस्याः भोगः पालनं रक्षणं, ततो न विद्यते प्रकृष्टरमाभोगो यस्य सोऽरमाभोगतमः, यद्वा सम्बोधनम् । “रमः कान्तौ रक्ताशोके मन्मथे च, रमा श्रिया” मिति वचनात् । रमः कामस्तस्याभोगः स्मरणं स एव तमो विवेकलोचनाच्छादकत्वात् । तमिस्रं न विद्यते तद्यस्य स तथा तस्यामन्त्रणम् । तं सद्गुणावली चुम्बत्याधयति । मनोहरा । हे अभोग त्यक्तवैषयिकसुख ! अस्तता धनखजनादिहीनता नाऽऽश्रय
Jain Education Internațional
For Private & Personal Use Only
www.jainelibrary.org