________________
यः पावनो हंस इवोत्ततंस नालीककान्तं वरमङ्गलाङ्गम् । तं सिद्धिवध्वाः सुमतिं नमामो नाऽलीककान्तं वरमङ्गलाङ्गम्।।५।। त्वं येन मङ्गल्यरमालयेन पद्मप्रभावं दितवाननेन । दृष्टेन लोकैः सकलं सुतीर्थं पद्मप्रभाऽवन्दि तवाऽऽननेन ॥ ६॥ 'धन्यः स मान्यो जिन! कस्य न स्यात् पृथ्वीप्रतिष्ठात्मज ! यस्तवेन । स्वभारती सारवतीं बभार पृथ्वीप्रतिष्ठात्मजयस्तवेन ! ॥ ७ ॥
माहात्म्येन जनानां मुक्तिश्रीभा भवन्तीति संटङ्कः । जिनविशेषमाह-भव्यानि कल्याणानि तेषां श्रीः, यद्वा भव्या मुक्तिगमनयोग्या जन्तवस्तेषां श्रीः संपत् भव्यत्वरूपा तस्या भाजनानां पात्राणां अभि० हर्षस्य ॥ ४॥ यो जिनः पावनः पवित्रः सन् हंस इव सुकुमारत्वादियुक्तत्वात् कमलमनोहरं । वर. सर्वलक्षण युक्तखात् वरमङ्गलादेव्यङ्गमुक्तं. विभूषयामास तं सुमतिं । सिद्धिवध्वाः नाली. ककान्तमननाचितत्वात् नाऽसत्यमुत्तरितम् । वरो वाञ्छितवितरणं मङ्गलानि च तेषामङ्गं कारणमभ्युपायमित्यर्थः ॥ ५॥ हे पद्मप्रभ ! येनाऽऽननेन मुखेन त्वं पद्मप्रभावं पद्ममहिमानं दितवान् छिन्नवान् । किंभूतेन ? "मङ्गल्यो रुचिरे स्वच्छे" इति वचनात् रुचिररमाप्रासादेन अनेन तवाननेन दृष्टेन लोकैः सर्वं स्थावरजङ्गमात्मकं शोभनतीर्थमवन्दि । वस्तुत्यभिवादनयोरिति धातोः स्तुतं प्रणतं च । इह 'यस्य च भावेन भावलक्षणमित्यनेन सप्तमीप्राप्तावपि तृतीया हेतुविवक्षणाददुष्टैव । यद्वा सप्तम्येवाऽत्र व्याख्येया। तथाहि-येनाऽनेनाऽर्थात् ववदनेन त्वं पद्मप्रभा वंदितवान् । यत्तदोर्नित्याभिसम्बन्धात्तस्मिंस्तवानने दृष्टे सति ननाऽवन्दि । अपितु वन्दितमेवेति ॥६॥ हे जिन! स धन्यो धर्मधनाहः कस्य मान्यो न स्यात् ? अपितु सर्वस्यापि स्यादित्यर्थः । किंभूतः? पृथ्व्यां प्रतिष्ठा गौरवं स्थिति यस्य स तथा । आत्मनः समुत्थो जयः आत्मजयः पृथ्वीप्रतिष्ठ आत्मजयो यस्य स तथा । व्यत्यये लुग्वेति विसर्गलोपः। यो निजवाणी फलवती स्तवेन बभार धारयामास कृतवानित्यर्थः, सारशब्दोऽत्र फलवाची, हे पृथ्वीप्रतिष्ठराजात्मज! अनेन प्रसिद्ध विशेषणेन सुपार्श्व इति शेषं लभ्यते । तव भवतः । हे इन खामिन् ! ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org