________________
२०३
यस्ते विधत्ते पदपद्मसेवां सदारुणश्रीप्रभ ! वासुपूज्य !। भवार्तिगर्तासु बिभर्ति नाऽऽस्थां स दारुणश्रीप्रभवासु पूज्य! ॥१२॥ भव्यं सदा यस्य नमस्यताऽसुमता पदावर्जितवैभवेन । दद्याः सुविद्या विमलेश ! स त्वमतापदा वर्जित वै भवेन ॥१३॥ मणीमिवाऽनन्त ! विलोक्य वृत्तोदारं भवन्तं जिनमीश्वरं च । श्रयेत कः काचमिवागुणत्वादारं भवन्तं जिनमीश्वरं च ॥ १४ ॥ अकारि कण्ठे गुणरत्नमाला धर्मस्य वर्यायतिना यकेन । लक्ष्मीः सदानन्दसुखाय तेन धर्मस्य वर्या यतिनायकेन ॥ १५ ॥ यस्ते यशः स्तौति नतामरेन्द्रमहीन ! शान्ते ! धनसारतारम् । स्वयंवरा तं वरयत्यपापमहीनशान्ते !ऽधन सारताऽरम् ॥ १६ ॥
तीत्यर्थः ॥११॥ यः पुमान् तव पदपद्मसेवां कुरुते इति संबन्धः । अरुणस्तरणिस्तत्सारथिर्वा तस्य या श्रीः प्रातस्त्यशोभा तद्वत्प्रभा यस्य तस्यामन्त्रणम् । नाऽऽस्थां चित्तस्थैर्य न करोति, कासु ? इह भवशब्देनोपचारेण भवस्थवैषयिकसुखराशिस्तस्यार्तयो लालसखात् चिन्ताविशेषास्ता एव दुःखहेतुखात् गीः तासु । किंभूतासु ? दारुणश्रीप्रभवः कामो यासु ताः तथा तासु । हे प्रजामहनीयेति ॥ १२ ॥ यस्य तव पादौ नमस्यताऽसुमता प्राणिना भाव्यम्, कीदृशा? उपार्जितचक्र्यादिश्रीकेण, हे ईश! स त्वं दद्याः प्रयच्छेः सुविद्या मतिज्ञानादिरूपाः । किंभूताः? अतापदाः न दुःखदाः, भवेन वर्जितेत्यामन्त्रणम् । वै पादपूरणे ॥ १३ ॥ चरित्रस्फार त्वामवलोक्य मणिमिव । मणिरपि वृत्ताकारो द्युतिभिश्च स्फारः स्यात् । जिनं कृपणं, ईश्वरं रुद्रम् । गुणाभावात् काचसमं कः श्रयति ॥ १४ ॥ अकारि० यकेन पुंसा धर्मजिनस्य प्रशमादिगुणरत्नमालां कण्ठे स्तोतव्यतया चके । किंभूतेन? वर्योत्तरकालेन तेन धर्मस्य पितृभूतस्य च लक्ष्मीः वर्या वरणीया, किंभूतेन गुणस्तवनार्थ तीर्थकृत् गणधरादिपदत्वात् यतिनायकेन मुनिराजेन । अन्योऽपि गुणवद्रत्नमालाद्यलङ्कतशरीरः सलक्षणस्त्रिया वियते ॥ १५ ॥ यः पुमान् घनसारः कर्पूरो दक्षिणावर्तपारदो वा तद्वत्तारमुज्ज्वलं यशः स्तौति, हे नतदेवेन्द्र महीन्द्र! एतेन प्रभोस्तीर्थकृञ्चक्रित्वे प्रादुर्भाविते । तं धनसारता वरतीति सम्बन्धः । अपापं पाप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org