SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९८ श्री पार्श्व ! तस्य भगवन् भवता नवायनिर्मुक्तभाव्यमचिरं भवतानवाय ॥ २३ ॥ श्रीवर्धमान नतमानसशोध यन्ति स्वैरं यशांसि भुवनं तव शोधयन्ति । बुद्ध्या चकोरनिकराः शतशो धयन्ति चन्द्रद्युतामपरदेवयशोधयन्ति ॥ २४ ॥ वाचस्तवेश ! भुवनानि सभाजयन्ति विद्योन्मदिष्णुपरवादिसभा जयन्ति । यैः संयमं सुमतिभिश्च सभाज ! यन्ति ते सिद्धिमाशु जिनराजसभा जयन्ति ॥ २५ ॥ यः सर्वकल्मषमलोपरमोदकेन दृष्टो जिनौघ भवता परमोदकेन । तेनाssप्यते सुखभरः परमोदकेन धर्मद्रुमेऽद्भुत गुणैः परमोदकेन ॥ २६ ॥ भवितव्यम् । हे नवायनिर्मुक्त! अवायो ज्ञानं नाऽवासोऽनवायोऽज्ञानं तेन निर्मुक्त रहित ! ॥ २३ ॥ नतानां मानसानि शोधयन्तीत्यणि नतमानसशोधस्तत्संबोधनम् । स्वैरं यन्ति प्रसरन्ति भुवनं शोधयन्ति विमलयन्ति । अपरदेवयशो धयन्ति अधःकुर्वन्ति । एतानि सर्वाणि शतानि च यशांसि चकोरनिकरा - चन्द्रतांबुद्ध्या धयन्ति पिबन्तीति संबन्धः ॥ २४ ॥ सभाजयन्ति प्रीणयन्ति, सुमतिभिः प्रयोज्यकर्तृभिः संयमं सभाजयन्ति सेवयन्ति । सह भया दीया यः स सभस्तस्य सम्बोधनं । हे अज अजन्म ! यन्ति गच्छन्ति ॥ २५ ॥ सर्वकल्मषमेव मलस्तस्योपरम उदकमिवोदकं तेन, परः प्रकृष्टो मोदो हर्षः, कंच मुखं च यस्य तेन परमोदन | धर्मद्रुमे दकेन जलेन । परेषां मोदकेनाहादकेनाऽद्भुतगुणैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy