________________
:१९७ ये भाषितं श्रुतिषु ते परमानयन्ति . ते सुव्रतेश ! कुमतोपरमानयन्ति । ये त्वां त्रिलोकहिततत्पर मानयन्ति
ते निवृतिं किमु गुणैः परमा न यन्ति ॥ २० ॥ चित्तं नमे ! त्वयि जगजनकान्तिकाय
कामेन येन कनकोज्वलकान्ति काय! । तस्मै श्रियः शुभदशाजनकान्तिकाय . रज्यन्ति कीर्तिविजिता मृतकान्तिकाय ॥ २१ ॥ नेमे ! भवानसितकीर्तिभृताऽम्बुराशि
नेमे भवानवरतं शिवसम्पदे मे । नेमे भवानणुनगच्छिदि मुक्तिकामै
नेमे भवानमरदानवमानवैर्ये ॥ २२ ॥ स्वामिंस्तवोद्यतमदं भवता नवाय
येन प्रमोदसुभगीभवता नवाय ।
परं प्रकृष्टं अन्यवचनेभ्योऽतिशायित्वात् । कुमतेभ्य उपरमा निवृत्तयस्तान अयन्ति गच्छन्ति प्राप्नुवन्तीत्यर्थः । मानयन्ति पूजयन्ति । न यन्ति न गच्छन्ति ॥२०॥ सुखं तस्यायो लाभस्तं कामयते इत्यणि कायः कामस्तेन कामेन न येन बयि चित्तं आन्ति अनुबन्धेनाऽबन्धि कृतमिति भावः। शुभदशाया जनकं संपादकमर्थात् परेषां अन्तिकं समीपं यस्य तस्मै रज्यन्ति रागं बध्नन्ति ॥ २१ ॥ भवः शम्भुस्तद्वदनसिता न सिताऽसिता नाऽसिताऽसिता विशदा या कीर्तिस्तया भृता पूरिताऽम्बुराशिनेमिः पृथिवी येन तत्सम्बोधनम् । भव एवाऽनणुर्महान् यो नगस्तरुस्तस्य छिदिच्छेदे नेमे! नेमिश्चक्रधारा । नेमे नमस्कृतः ॥ २२ ॥ येन नवाय नव्याय नवाय स्तवाय उद्यतमिति योगः । तस्य भवतानवाय संसारतनुत्वाय भवता भाव्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org