________________
१९६ तस्मादमीमहनमीशरमानिशान्ते
तन्वन्ति तत्र सुकृतैः परमा निशान्ते ॥ १६ ॥ नम्राङ्गिनिर्मितदुरापरमागमेन
नानाभवक्लमभरोपरमागमेन । निन्ये सुखं त्रिभुवनं परमागमेन
श्रीकुन्थुनाथ ! भवतापरमागमेन ॥ १७ ॥ ये दृष्टिगोचरमहोपरमादरेण । नीता दुरन्तदुरितोपरमादरेण । आसाद्य ते त्रिदशभूपरमा दरेण
धाम श्रयन्ति रहितं परमादरेण ॥ १८ ॥ मल्लिप्रभो! जनमनोम्बरवा स्तवेन __पादौ द्यतां मम शिवे वरवास्तवेन । यं त्वां स्तुवन्ति जगदीश्वर! वास्तवेन
खःस्वामिनः सरसपीवरवास्तवेन ॥ १९ ॥ प्रभाते ॥ १६ ॥ नम्राङ्गिनां निर्मिता दुरपाया दुर्लभाया रमाया आगमः समागमो येन तेन । नानाभवक्लमभरस्य उपरमे व्यपरमेऽगमो वृक्षस्तेन । लया परमागमेन परमेण सिद्धान्तेन कृत्वा त्रिभुवनं परं सुखं निन्ये । परमागमेन कीदृशेन? आसमन्तात् गमाः सदृशपाठा यस्मिंस्तेनाऽऽगमेन ॥ १७ ॥ अरेण अरतीर्थकरेण, ते त्रिदशभूपरमा आसाद्य दरेण भयेन रहितं धाम परमपदं श्रयन्ति । दरेण कीहशेन? परः प्रकृष्टो मादः।मदी हर्षग्लेपनयोरिति । मदनं मादो ग्लेपनं तं राति ददाति इति परमादरस्तेन, यद्वाऽरेण। कीदृशेन ? परेषां यो मादो हर्षस्तं राति ददातीति यस्तेन ॥ १८ ॥ जनमनांस्येवाऽम्बराणि वस्त्राणि तेषां विशुद्धिहेतुत्वाद् वारिव वाः पानीयम् । शिवे मोक्षे वरं प्रधानं वास्तु निवासभूर्यस्य तस्य सम्बोधनं वरवाः। ते तव पादौ मम एनः पापं यतां छिन्ताम् । उत्तरार्धे यच्छब्दोपादानात् पूर्वार्धे तस्येति भवेत्यस्य विशेषणं ज्ञेयम् । उत्तरार्ध स्पष्टम् ॥ १९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org