SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९५ त्वत्कीर्तयो विमलतीर्थपतेऽज यन्ति याश्चन्द्रमण्डलरुचोऽप्यपतेजयन्ति । ये ताः स्तवैरभिनवैर्नहि तेजयन्ति दुर्मेधसः शुभगतिं किमु ते जयन्ति ? ॥ १३॥ निस्तुल्यकेवलरमा कमलोपमान ! स्वामिन्ननन्त ! गतपङ्कमलोप मान ! | यस्ते तनोति सविवेकमलोपमान मस्य श्रियः सुरपतेः कमलोपमा न ॥ १४ ॥ मुक्यर्थमुद्यतमतिर्जनकामदाय भक्त्या ननाम भवभञ्जन कामदाय | तुभ्यं प्रजा त्रिजगतीजनकाऽऽमदाय श्रीधर्मनाथ ! जिनराज न का मदाय ॥ १५ ॥ यैस्ते क्रमाब्जमसुमद्भिरमानि शान्ते ! तेषां पढ़े कृतिभिराप्तिरमानिशान्ते । अपतेजसो निस्तेजसः कुर्वन्तीति णिचि अपतेजयन्ति दीपयन्ति, हे अज अजन्म ! यन्ति गच्छन्ति ॥ १३ ॥ निस्तुल्यकेवलरमाया निरुपमकेवलज्ञानलक्ष्म्याः कमलमुपमानं यस्य । हे अलोप अविनाश ! ते तव मानं पूजां सविवेकं निदानरहितया यस्तनोति । कीदृशाः सन्तः ? गतः पङ्कः पापं मलश्च यस्मात्स तथा बहिरन्तःशुचिरित्यर्थः । अस्य पुरुषस्य श्रियः समृद्धेः सुरपतेः कमला उपमा न स्यात् ॥ १४ ॥ जनकामान् ददातीति जनकामदस्तस्मै । कामं द्यति छिनत्तीति कामदस्तस्मै । हे त्रिजगतीजनक ! अमदाय मदरहिताय तुभ्यं का प्रजा न ननाम । अपितु सर्वाऽपि । आमा रोगास्तान् दाति लुनातीत्यामदस्तस्मै ॥ १५ ॥ अपूजि, तेषां असुमतां शान्ते पदे परमपदे आप्तिः प्राप्तिः कृतिभिरमानि । अभी कृतिनः । महनं पूजाम् । रमाया निशान्ते गृहे । तत्र क्रमाब्जे । निशान्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy