SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९४ विज्ञा हितैकमतयो जिन पुष्पदन्तं । भक्त्या स्तुवन्ति कति न स्मितपुष्पदन्तम् ॥ ९॥ अस्मान् कृपार्णव! भवार्ततमानवेन! श्रीशीतल! प्रबलपापतमानवेन! । त्रातं त्वया हि भजतेऽद्भुतमा नवेन । - स्तुत्या सतां प्रणतदैवतमानवेन!॥ १० ॥ वाचः प्रभो! तव तमश्छिदि भानवन्ति श्रेयांस! विश्वकुमुदे हिममानवन्ति । भाव्यांश्च भावरिपुलूनशुभानवन्ति यासां पुरः परवचांसि न भानवन्ति ॥ ११ ॥ श्रीवासुपूज्य ! कृतविश्वसभाजनस्य धर्मोपदेशरससिक्तसभाजनस्य । भक्तास्तव त्रिदशक्लप्तसभाजनस्य सिद्ध्यन्ति योगिजनमानसभाजनस्य ॥ १२ ॥ मतिर्येषां ते तथा ॥ ९ ॥ भवेन संसारेण ऋततमान् अन्यार्थ पीडितानस्मानव रक्ष, प्रबलपापमेव तमा रात्रिस्तस्यां नवेन नवसूर्य ! हि यस्मात् त्वया त्रातं रक्षितं अद्भुतमाऽद्भुतलक्ष्मीभेजने । कीदृशी? सतामुत्तमानां नवेन स्तवन स्तुत्या स्तोतुं योग्या पुण्यानुबन्धिनीत्यर्थः ॥ १०॥ तमः पापं तदेव तमोऽन्धकारस्तस्य छिदि छेदे भानवन्ति भानुरिवाचरन्ति । हिमभानुश्चन्द्रस्तद्वदाचरन्ति, भावरिपवो सगाद्यास्तैलूनं छिन्नं शुभं येषां तान् भव्यान् अवन्ति रक्षन्ति । यासां वाचां पुरः परवचांसि परतीर्थिकवचनानि भानं शोभा तद्वन्ति न भवन्ति, असंबद्धार्थतया निःश्रीकाण्येव स्युरित्यर्थः ॥ ११ ॥ कृतं विश्वस्य विश्वेषां वा सभाजनं प्रीतिर्यस्य, त्रिदशैः कुप्तं विहितं सभाजनं सेवनं यस्य तस्य । सिध्यन्ति सिद्धि यान्ति । योगिजनमानसानां भाजनस्याऽऽधारस्य तेषां वदेकलीनवात् ॥ १२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy