SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १९३ श्री अथ चतुर्विंशतिजिनस्तवनं स्तुतयश्च । '... ... ... ... .... .... ... .... ... ... ... .........॥६॥ स्वामिन् सुपार्श्व! भगवन् ! जितकोप ! मान- प्रह्वाङ्गिमानसजले कतकोपमान!। स्तोता प्रयाति तव देव! न कोपमान___ मायः शिवं जगति यस्य हि कोपमा न ॥ ७ ॥ प्रौढिं परामधित चिन्महसेनराज- जैत्र! त्वया तनुभुवा महसेनराजः। कीर्तिस्तवाऽस्तसितधामहसेनराज त्युर्वीतले नतमहामहसेनराज ॥ ८॥ कीर्तिप्रतापपरितर्जितपुष्पदन्तं नम्रप्सितप्रथनदैवतपुष्पदन्तम् । .. अवचूरिः। . ......मानः पूजा तत्र प्रह्वाः प्रवणा येऽङ्गिनस्तेषां मानसजले तद्विशुद्धिहेतुत्वेन कतकचूर्णतुल्य!, यस्य शिवस्य कोपमा कं सुखं तस्योपमा सादृश्यं जगति नास्ति, तत् शिवं मोक्षं तव स्तोता प्रयातीति सम्बन्धः ॥ ७॥ चिन्महसा ज्ञानतेजसा इनराजजैत्र सूर्यचन्द्रजैत्र! त्वया तनुभुवा पुत्रेण महसेनराजः परां प्रौढिमधित दधार, अस्तः क्षिप्तः सितधामा चन्द्रो हसश्च हासो वैशयेन यया, यद्वाऽस्तः सित: धानो हसो हासो यया विजितत्वात् सा तथा । तव कीदृशस्य ? नतमहा महान्तः प्रौढा महा उत्सवाः सेनाश्चतुरङ्गचम्वो येषां ते महामहसेनास्ते च ते राजश्च नताः प्रणता महामहसेनराजो यं तस्य ॥ ८ ॥ चन्द्रसूर्यासुरपादप, हिते एकाऽद्वितीया " १ स्तोत्रस्यास्य प्रारम्भगताः षट्श्लोकास्त्रुटिताः सन्ति । स्तो. स. १३ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy