________________
१९२
रागरोषरहिताऽर्हता ततिः सर्वदैवतनुताऽमिता हिता। ईहितानि नमतां हताऽमता सर्वदैव तनुतामिताहिता ॥ २५ ॥ विश्ववर्तिजिननाथसंहतेः सन्नताऽमरसभाऽपराभवा । संपदो दिशतु वः पदद्वयी सन्नतामरसभा पराऽभवा ॥२६॥ श्रीजिनोक्तमततत्त्वपद्धतेर्बोधकंप्रवचनं सुरोचितम् । धुन्वदन्यमतमानतोऽन्वहं बोधकं प्रवचनं सुरोचितम् ॥ २७ ॥ मोहवारिणि गुणौघसङ्गिनीमङ्गिनी घनतमोहराऽजिता । भारती भवतु भूतयेऽङ्गिनामङ्गिनी घनतमोहराजिता ॥२८॥ .. इत्थं निर्निभभक्तिनुन्नमनसा नूता जिनानां तति
नित्यैकान्तहिताप्यवाप्तविततत्रैलोक्यपूजोदया। संसारे सुविषीदतोऽतिविषमैर्दुःखैस्तदुच्छेदिनी
___ श्रेयोलक्ष्मिसखी निषीदतु सदानन्दप्रदा मे हृदि ॥२९॥ इति श्रीचतुर्विंशतिजिनस्तुतयः । श्रीतपागच्छाधिराजश्रीसोप्रसुन्दरसूरिशिष्य
श्रीजिनसुन्दरसूरि विरचितम् ॥
॥ २४ ॥ अहंतां ततिः किंभूता? सर्वदैवतनुता सकलदेवस्तुताऽमिताऽमाना हिता हितकत्री, हतानि क्षिप्तानि अमतानि अनिष्टानि यया सा हतामता, ईहितानि वाञ्छितानि सदैव सदा तनुतां विस्तारयतु । इता गता अहिता वैरिणो रागादयो यस्याः सा इताहिता ॥ २५ ॥ पदद्वयी किंभूता? सनता नता अमरसभा देवस. माजो यस्याः सा सन्नताऽमरसभा। पुनः किंभूता? न विद्यते पराभवो यस्याः साऽपराभवा, पुनः किंभूता? सन्ना छिन्ना तामरसानां पद्मानां भा कान्तिर्यया सन्नतामरसभा । प्रकृष्टाऽभवा सत्रहिता ॥२६॥ सुराणां देवानां योग्यं, अन्यमतं किंभूतम् ? कंप्राणि अफलानि वचनानि यत्र तत् । सुरोचितमभिप्रेतम् ॥ २७ ॥ इयमङ्गिनी । घनं निबिडं तमः अघं हरतीति धनतमोहरा श्वेङ्गिनी अङ्गागमवती, घनतमाः प्रचुरा ऊहा वितर्कास्तै राजिता घनतमोहराजिता। भारती वाग्देवता भूतये समृद्धये भवतु ॥ २८ ॥ इति अवचूरिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org