________________
१९१
त्वन्मतास्त्रमघविद्विषच्छिदे तेजयन्ति मुनिसुव्रताऽऽप्त ! ये । नित्यसंश्रितभवन्मताः क्षितौ ते जयन्ति मुनिसुव्रताप्तये ॥२०॥ संश्रिते जिनमते जगत्पते ! सत्तमे विधुतमेह ते नमे। चित्तमन्यकुमतं घनैनसासत्तमे विधुतमेहते न मे ॥ २१ ॥ राज्यऋद्धिमवधूय सन्निधिश्रीसमुद्रविजयाङ्गजोर्जिताम् । तेनिवान् शिवरमां सतां श्रिये श्रीसमुद्रविजयाङ्गजोर्जिताम्॥२२॥ पार्श्वदेव! तव मूर्तिमुत्तमः सन्महामहिमधामसन्निभाम् । कः श्रयेत न तमश्चयच्छिदे सन्महामहिमधाम सन्निभाम् ॥२३॥ भक्तितो मतिजुषो भजन्ति यं वर्धमानमहमानमामि तम् । जन्तुजाततमसो निशातनं वर्धमानमहमानमामितम् ॥ २४ ॥
कुम्भसम्भवमुनि अगस्तिऋषिम् । पुनः किंभूतम् ? धनः प्रभूत आगमः सिद्धान्तो यस्य तं घनागमम् । पुनः किंभूतम् ? कुम्भसम्भवो मुनितितत्त्वः कुम्भसम्भवश्चासौ मुनिश्च कुम्भसम्भवमुनिस्तम् । पुण्यवल्लिविपिनस्य लासने वृद्धौ घनागम मेघागमम् ॥ १९ ॥ हे मुनिसुव्रत! हे आप्त! ये जनाः त्वन्मतास्त्रं अघवैरिविच्छेदाय तेजयन्ति, किंभूताः ? मुनीनां यतीनां शोभनानि यानि व्रतानि तेषामाप्तये प्राप्तये संश्रितभवन्मताः आश्रितभवदीयशासनाः ॥ २० ॥ हे जिन! हे नमे! तव मते संश्रिते सत्तमे प्रधाने विधुता क्षिप्ता माया लक्ष्म्या ईहा येन तत्संबोधने हे विधुतमेह ! ते तव चित्तं मनः अन्यकुमतं न ईहते न वाञ्छति । हे विधुतम प्रकृष्टचन्द्र ! कस्मिन् घनैनसाऽसम्भ्रमे घनं निबिडं यदेनसं पापसमूहस्ते तुरूपं यत्तमस्तमिस्तस्मिन् ॥ २१ ॥ राज्यऋद्धिं किंभूताम् ? सन्निधौ श्रीलक्ष्मीः शोभा वा समुद्रः स प्रतिष्ठो विजयो यस्यास्ताम् , सनिधिश्रीसमुद्र विजयाङ्गजैरूर्जितां सबलां गजोर्जितां तेनिवान् ॥ २२ ॥ मूर्ति किंभूताम् ? महान् प्रौढो यो महिमा तं दधातीति महामहिमधा ताम् , असद् अविद्यमानं निभं छद्म यस्यास्तामसन्निभां, तथा सन् प्रधानो महः पूजा महः तेजो वा यस्यास्तां सन्महाम् । अहिमधामा रविस्तस्य सन्निभां समानाम् ॥ २३ ॥ वर्धमानं किंभूतम् ? वर्धमाना महा उत्सवा मानं ज्ञानं तद्रूपा मा लक्ष्मीस्तयाऽमितममेयम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org