SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १९९ मोहार्दितः सकलभावविभासमानं प्राप्तं सतां नतवितीर्णशुभासमानम् । लब्धाजिनागममहानयभासमानं - त्वामद्य दुस्तमतमोहिमभासमानम् ॥ २७ ॥ या भाति नौः सकलशास्त्रसरस्वती व __ क्रीडां तनोति जिनवक्रसरस्वतीव । विश्वं पुनाति च सुपर्वसरस्वतीव हेयादियं सुखशतानि सरस्वती वः ।। २८ ॥ इत्यस्तापरदेवसुन्दरमहाश्रीणां विलासालया राकानिर्मलसोमसुन्दरयशःशुक्लीकृताशाचयाः। नूताः श्रीऋषभादिवीरचरिमाः सार्वाश्चतुर्विशतिस्तन्यासुर्मम मुक्तिलम्भनचणां चारित्रलक्ष्मी पराम्॥२९॥ इति श्रीचतुर्विंशतिजिनस्तवनं स्तुतयश्च पं० चारित्ररत्नगणिकृताः ॥ कृत्वा ॥ २६ ॥ सकलभावान् विभासयन्तीति सकलभावविभासः तत्सम्बोधनम्, सतामुत्तमानां मानं पूजां प्राप्तम् । नतेभ्यो वितीर्णानि शुभानि येन तत्सम्बोधनम् । असमानं अतुल्यम् । दुस्तमानि अतिशयेन दुष्टानि यानि तमांसि तेषामहिमभासं सूर्यम् । मोहार्दितोऽहमद्य वां लब्ध्वा प्राप्य आनं अजीवं जीवितवानित्यर्थः ॥२७॥ सर्वशास्त्रसमुद्रे या नौरिव भाति । जिनवक्रसरस्सु अतीव क्रीडां तनोति। सुपर्वसरखती गङ्गा तद्वद्विश्वं पुनातीति योगः ॥ २८ ॥ इति अवचूरिः ॥ इति श्रीचतुर्विंशतिजिनस्तुतीनामवचूरिः ॥ पं० चारित्ररत्नगणिकृता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy