________________
१८८
दुःखदुःकृततमिस्रसूदने भावदाभ! विभवाऽभिनन्दन!। भक्तिरभ्युदयिनी तवाऽस्तु मे भावदाभविभवाऽभिनन्दन ! ॥४॥ देवदानवनरेन्द्रकिन्नरैरञ्चितं सुमतिनाथ! ते मतम् । मन्मनोऽविरहितं हितेच्छयाऽरं चितं सुमति नाथते.मतम् ॥५॥ दर्शनेन जनयन् प्रजामितापद्मलां छितभवाहितामयः। श्रीधराङ्कज! जिनेश मे श्रिये पद्मलाञ्छित ! भवाहितामयः॥६॥ श्रीसुपार्श्व ! विदुषां हिताप्तये देवगौरपरुषामृतायिता । मां पुनातु तव कल्मषाविलं देव! गौरपरुषाऽमृतायिता ॥७॥ लक्ष्मणाङ्गज! जिनेश! ते सुधाधामगौरवपुषो महोदयम् । संश्रितस्य तनुतां मतं सतां धाम गौरवपुषो महोदयम् ॥ ८ ॥ त्वां बभाज जिनराज यो जनोऽनेनसं गतममानसं पदम् ।
तं विधेहि सुविधे! शुभोदयेनेन! सङ्गतममानसंपदम् ॥ ९ ॥ म्भिनां कर्मगजानाम् ॥ ३ ॥ हे भाखदाभ सूर्यसमान!, विगतो भवो यस्य तस्य सम्बोधने हे विभव!, भावन्ती दीव्यन्ती आभा शोभा यस्य एवंविधो यो विभवो द्रव्यं तस्य अभिनन्दन! समृद्धितया ॥४॥ अञ्चितं पूजितम् । हे सुमतिनाथ! ते तव । तत्किम् ? शासनम् , अविरहितं निरन्तरं हितेच्छया हितवाञ्छया, अरमत्यर्थ चितं व्याप्तम् , नाथते इच्छति । किंभूतं मतम्? मतमभीष्टम् , पुनः किंभूतम् सुमति शोभना मतिर्यत्र यतो वा तत् सुमति ॥५॥ प्रजां किंभूताम् ? इतो गत आपदेव मलो यस्याः तां इतापद्मलाम् । त्वं किंभूतः? छितः छिन्नो भवएवाऽहितो वैरी आमयश्च रोगो येन स छितभवाहितामयः। हे पद्मलाञ्छित! ये मम श्रिये, भव आहितः स्थापितोऽमयोऽमारिर्येन स आहितामयः ॥ ६ ॥ देवगौः कामधेनुः, विदुषां किंभूतानाम् ? अपगता रुट रोषो येषां तेषामपरुषां, ऋतं सत्यं तत्राऽयिता प्राप्ता गौर्वाणी, अपरुषा सुकुमारा, अमृतायिताऽमृतवदाचरिता ॥७॥ सुधाधामेन्दुस्तद्वद् गौरं वपुर्यस्य तस्य महोदयं मोक्षं श्रितस्य तव धाम तेजः गौरवं गुरुत्वं तस्य पुष्टतांगतं शासनम् । महान्तमुदयं तनुताम् ॥८॥ अनेनसं अनघम् , गतं प्राप्तम् , अमानसं मनोरहितं पदं स्थानं मोक्षरूपं तं नरं शुभोदयेन सङ्गतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org