________________
श्रीविलासललितं विनिर्मितापद्मयाऽमलमलं भिया चितम् । देव! शीतल ! तव क्रमद्वयं पद्मयामलमलम्भि याचितम् ॥१०॥ खगिलाञ्छन ! गुणव्रजद्रुमारामराजिघनसंवरागमे । प्राक्तनेन सुकृतेन ते मनोऽराम राजिघनसंवराऽऽगमे ॥ ११ ॥ स्वस्य यस्य हृदि वासमीशिताऽमानसम्मदवशोऽमनोऽभवः । वासुपूज्य ! जिन! तस्य नाऽश्नुते मानसं मदवशो मनोभवः॥१२॥ यो भवन्तमभिनौति भावतोऽज्ञानवन्तमवदातविग्रहम् । । तं कुरुष्व विमलेश वत्सलज्ञानवन्तमवदातविग्रहम् ॥ १३ ॥ . यो जहाति वचनेन ते मुने! ऽमानवैरचितमानसं मदम् । विन्दते पदमनन्तस ध्रुवं मानवै रचितमानसंमदम् ॥ १४ ॥ सहितम् । हे इन खामिन् ! अमानसम्पदं बहुसम्पदं विधेहि ॥ ९ ॥ विनिर्मित आपदा मयो विनाशो येन तस्य सम्बोधनं हे विनिर्मितापद्मय! क्रमद्वन्द्वं किंभूतम् ? अमलं निर्मलम्, पुनः किंभूतम् ? अलमत्यर्थ भिया भयेन चितं व्याप्तम्, पद्मयुग्मम् , अलम्भि लब्धम् , मया का, याचितम् प्रार्थितम् ॥ १० ॥ गुणवज एव द्रुमा वृक्षास्तेषामारामा वनानि तेषां राजिः श्रेणिस्तस्यां घनो मेघस्तस्य संवरं नीरं तस्यागमः सङ्गमस्तत्र राजी भ्राजनशीलः घनः प्रभूतः संवर आश्रबंनिरोधो यस्य तस्य सम्बोधनं हे राजिघनसंवर! ते तव आगमे सिद्धान्तेऽराम वयं तत्र चेत इत्यर्थः ॥ ११ ॥न विद्यन्ते मानोऽभिमानः संमदो हर्षः वशा: त्रियो यस्य सोऽमानसंमदवशः अमनः कृतवान् , अभवः संसाररहितः तस्य मानसं मनो मदवशो मनोभवः कामो नाऽश्नुते व्याप्नोति ॥ १२॥ अज्ञान् मूर्खान् अवन्तं रक्षन्तं, अवदातो विशदो विग्रहो देहो यस्य स तमवदातविग्रहम् , तं नरे किंविशिष्टम् ? ज्ञानवन्तं प्रबोधवन्तम् । अवदातः छिन्नो विग्रहः संग्रामो येन तथाभूतं कुरुष्व ॥ १३ ॥ अमानं निःसंख्यं यद्वैरं तेन चितं व्याप्त मानसं मनो यत्र तममानवैरचितमानसं, मदं अहङ्कारं यस्ते तव वचनेन जहाति त्यजति स पुमान् ध्रुवं स्थिरं पदं स्थानं विन्दते प्राप्नोति, किंभूतं पदम् ? मानवैर्नरै रचितः कृतः मानेन पूजनेन आनन्दो यत्र तत् ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org