SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८७ श्रीनेमिनाथादिजिनेश्वराणां कल्याणमालापदमुजयन्तः । बभूव भूधः सकलाङ्गिनां तु त्वमेव कल्याणनिधिविभासि ॥४॥ अजारपार्श्व! स्तुतिमार्गमित्थं नीतो विनीतेन मयाऽतिमोदात् । चेतःसरोमङ्गलपद्मसागरं करोतु सेवाकर ! लोकवत्सलः ॥ ५॥ इति अजारपार्श्वजिनस्तवनम् ॥ श्रीसहुरवे नमः। अथ चतुर्विंशतिजिनस्तोत्रं स्तुतयश्च । - - श्रीजिनर्षभ! भवन्तमाश्रितो देव! भव्यनयनाभिनन्दन । भूरिवैभवभरो भवी भवेदेव भव्यनय ! नाभिनन्दन! ॥१॥ यस्तवाऽन्तरतमश्चयच्छिदे जायतेऽजित ! मतेन राजितः । स्यादवाप्तविजयोऽयमजसाऽजाय! तेजितमते! नराजितः ॥२॥ भक्तिनुन्नमनसो नमन्ति ये पुण्डरीकबलदेवशम्भव । स श्रयन्तमव मर्मकुम्भिनां पुण्डरीकबल! देव! शम्भव ! ॥३॥ ॥ अवचूरिः॥ अथ चतुर्विशतिजिनस्तुतिव्याख्या ॥ श्रीजिनेषु ऋषभः प्रधानः तस्य सम्बोधनं हे जिनर्षभ!, भव्या मुक्तियोग्या जन्तवस्तेषां नयनाभिनन्दन लोचनप्रीतिद! भवेदेव भवत्येव । भव्याः प्रधाना नया न्याया यस्य तत्सम्बोधने हे भव्यनय! ॥ १ ॥ अजित ! तव मतेन शासनेन यः पुमान् राजितो दीप्तिमान् जायते भवति, अयं स पुमान् राजितो नरेन्द्रसङ्ग्रामतोऽवाप्तविजयः प्राप्तविजयः स्यात् भवेत् । न विद्यते जाया भार्या यस्य तस्य सम्बोधनं हे अजाय!, तेजिता दीप्ता मतिर्यस्य तत्सम्बोधने हे तेजितमते! ॥२॥ पुण्डरीको दिग्गजविशेषः, बलदेवो बलभद्रः, शम्भुरीश्वरः, एते ये त्वां नमन्ति स त्वं श्रयन्तं जनं अव रक्ष, पुण्डरीकः सिंहस्त(लं पराक्रमो यस्य तत्सम्बोधने हे पुण्डरीकबल!, केषां ? कर्मकु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy