________________
अथ श्रीगौतमस्वामिस्तवनम् ।
गुणपुङ्गव! गौतम! गोतमगौर्गतिभङ्गगमागतिदुर्गतिवित् । त्वयकाऽप्रहि येन यतित्वमलं त्रिशलातनयान्तिक अन्तकरे ॥१॥ त्रिपदीग्रहणोद्यतसद्धिषणः कृतवीरपदार्थसुनिर्वचनः । वचनामृतहर्षितमर्त्यगणो गुरुसौख्यभराय भव त्वमिह ॥ २ ॥ यन्नाममस्मरणेन सर्व शशाम विद्युच्चपलायुषां नः । दुःखातिगं कर्म पुराऽनुभूतं बद्धं निधत्तं भवकोटिभूतम् ।। ३ ।। सज्ज्ञानसद्दर्शनसच्चरित्ररूपं हि रत्नत्रयमत्र पुष्टम् । यदेहगेहेऽग्रिममुद्बभूव ध्वस्तादिकान्तं सुरकोटिशस्यम् ॥ ४ ॥ विमलगुणाकर ! गौतम! मिक्षालब्धि ददस्व सकलानाम् । साधूनां प्रतिदिवसं स्तुतो मयेति प्रकारेण ॥ ५ ॥
इति गौतमखामिस्तवनम् ॥ वाचकचक्रवर्तिमहोपाध्यायश्रीधर्मसागरगणिशिष्य पं० गुणसागरगणिना कृतम् ॥
अथ अजारपार्श्वस्तवनम् ।
अजारपार्श्वस्तुतिमार्गमानये नयेन सेवाविशदेन भास्वता। तथा यथा जन्म निजं महोदयप्रभुत्वपूतं सुखसन्ततिश्रितम् १ सौराष्ट्रदेशागमनश्रमो मे त्वदर्शनाद्देव ! बभूव सिद्ध्यै । शीतयुतेः क्षीरसमुद्रसङ्गाद् व्योमावगाहः किल कान्तिवृद्ध्यै ॥२॥ शत्रुजयः पर्वत एष सिद्धिक्षेत्रं बभूवोत्तमकालजानाम्। दुःकालजानामपि नाथ ! सिद्धिक्षेत्रं त्वमेवास्यतुलप्रभावः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org