SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८५ जगन्नाथपतिः सुमुक्तिर्विमुक्तिः सशक्तिः सयुक्तिः सुभक्तिः सुभुक्तिः। प्रकामागता माहतामाविरामा यतीनां ततीनां रतीनां हृतीनाम् ॥२॥ गुणैः शुद्धसिद्धान्त सिद्धान्त ऊन्मिकृत् सदाभावतां संमतां दीयतां पोषिताम् । दुरत्यन्तकष्टेन शिष्टेन लष्ठेन वा स्फुरद्वर्णपूर्णैः सकर्णैः सकर्णैः श्रितः ॥ ३ ॥ गलद्भारतीपीनपीयूषतुल्या यदीया रणत्कारकारिक्रमाब्जा। महामूल्यसन्नूपुराभ्यां नवाभ्यां सुखायाऽस्तु देवी सतां जन्मभाजम् ।। श्रीः श्रीवर्धमानजिनस्तवनम् । श्रीवर्धमान! गुणपुङ्गववर्धमान ! स्पर्धा करोषि विलसत्तरणिप्रभामिः। कामं समभ्यधिक एव तवप्रतापाद् यःस्यान्मम त्रिजगति प्रसरायमाणः त्वदीयं मुखं कौमुदीनाथमित्थं प्रभो! वक्ति शीतयुते ! ते सदृक्षम् । वदन्ति प्रबुद्धास्तदेतन्मुधाहं प्रमन्ये यतो निष्कलङ्कत्वयुक्तम् ॥२॥ कलङ्कान्वयस्त्वं तु लोके प्रसिद्धो मृगाकारधारित्वतः साधु मन्ये । त्वदीयक्रमद्वन्द्वमित्थं कजान्वा वरं भाषते ते सदृक्षं मुधैतत् ॥३॥ रजोयुक्तमेवाऽहमस्मिन् रजोभिर्वियुक्तं सदारक्तदन्तच्छदस्ते । सुबन्धूकसान्ध्यारुणत्वं प्रतीति प्रहास्यं करोति त्वदीयोऽरुणत्वात् ४ मदीयं विरक्तस्थरक्तत्वमार्य दरीदृश्यतेऽकृत्रिमं भक्तितस्त्वम् । . मयेति स्तुतो वर्धमानः स सिद्ध्यै भवेत् प्रोल्लसन्मोक्षलक्ष्म्याः प्रकामम् इति श्रीमहावीरस्तवनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy