________________
१८४
(२) त्वया निर्वृतिभूषिताऽऽर्या यदानी तदानीं महाराजराजैः कृतं सत् । स्फुरदीपदीपालिकापर्व वयं महावीर! स त्वं प्रभो! पालयाऽस्मान् १ जिनश्रेणिका नायिका दायिका वा सुखस्याऽसमस्या शमस्या नमस्या। ततस्याऽतुलस्याकरस्यादरस्या सशङ्का दिवौका अशोकार्यनाका॥२॥ जिनेशागमः सागमः सङ्गमः साग प्रसिद्धः प्रसिद्धः सुबद्धः प्रसिद्धः। विबुद्धिः समृद्धिः प्रसिद्धिःप्रवृद्धिःक्षतामः सुरामः प्रकामः प्रवामः ३ सहस्रच्छदस्योपरि स्थापितांतिद्वयाऽष्टापदस्येव पीताङ्गवर्णा । महाभूपसिद्धार्थसूनुप्रभूतप्रभावा वरं रातु सिद्धायिका वः ॥४॥
अथ गौतमस्वामिस्तुतिः। .
गौतमान्वयपवित्रगौतमः सप्तहस्ततनुकः स सिद्धये । अस्तु सत्सचतुरस्रसंस्थितः केवलाय समभूद्विषादकः ॥ १॥ तीर्थकृत्ततिरियं भवे भवे दुःखकूपनिपतजनान् भवेत् । पालनाय यतनापरायणा कर्मशत्रुसुपुरीकृताऽक्षरा ॥ २ ॥ नैगमादिनयसंयुतागमस्तीर्थद्वदनभाषणाग्रिमः । अन्यतीर्थिकमतश्चमत्कृतिः शङ्करः सकलजन्मिनोऽस्तु वः ॥३॥ अम्बिकाभिधगरिष्ठदेविका बिभ्रती श्रवणयोः सुकुण्डले । स्तूयमानगुणमण्डली जनैर्विनघातजनकाऽस्तु सन्ततम् ॥ ४ ॥
यदीयं प्रभाते स्फुरन्नामधेयं गृहीत्वा ययुर्जन्मिनः कोटिसंख्याः। शिवं यान्ति यास्यन्ति कुर्यात् कलानां कलापं कुकर्मारिभिद् गौतमो मे१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org