________________
१८३
सद्वृत्तानां शुचीनां प्रकटनपटवो मौक्तिकानां फलानां
तेऽमी कण्ठीरवाभा जगति जिनवरा विश्ववन्द्या जयन्ति ॥२॥ सद्बोधावन्ध्यबीजं सुगतिपथिरथः श्रीसमाकृष्टिविद्या ___ रागद्वेषाहिमत्रः स्मरदवदवथुप्रावृषेण्याऽम्बुवाहः । जीयाज्जैनागमोऽयं निविडतमतमःस्तोमतिग्मांशुबिम्बं ___द्वीपः संसारसिन्धोत्रिभुवनभवनज्ञेयवस्तुप्रदीपः ॥ ३ ॥ यः पूर्वं तन्तुवायः कृतसुकृतलवैर्दूरितः पूरितोऽधैः
प्रत्याख्यानप्रभावादपरमृगशामातिथेयं प्रपेदे । सेवाहेवाकिशाली प्रथमजिनपदाम्भोजयोस्तीर्थरक्षादक्षः श्रीयक्षराजः स भवतु भवतां विघ्नमर्दी कपर्दी ॥४॥
इति श्रीऋषभजिनस्तुतिः ।
श्रीः अथ श्रीवीरजिनस्तुतिः।
(१) पटिष्ठाष्टकर्मद्विषद्ध्वंसनेन प्रदत्तं त्वदीयं महन्नामधेयम् । महावीर इत्यद्भुतं देवराज्ञा कृताज्ञाप्रपञ्चेन देवावलीभिः ॥ १ ॥ जिनाली भवाली हताली नरालीनतारा नतारा समारा समारा । प्रमोदाप्रमोदा निदानानिदाना विमाना विमाना प्रमाणा प्रमाणा॥२॥ ततान्तः कृतान्तः कृतान्तःप्रशान्तःप्रकान्तं मितान्तं नतान्तं महान्तम्। ददातु त्वजातु प्रमादः प्रमादः सुखं नः पुनानः समानां समानाम्॥३॥ अधिष्ठायिका साधु सिद्धायिका वः पुनीतात् स्फुरन्नूपुरद्वन्द्वपादा । स्वकीयप्रभुप्रष्ठसेवानुरक्ता विरक्ता भवेभ्यः पतज्जन्मवयः ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org