SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८२ अज्ञानालीपाथोदालीशत्या दृप्यत्सारङ्ग (११) वन्दारूणां भीदारूंणां वैक्षोवृक्षे सारङ्गम् (१२)॥३॥ जैनाध्यक्षं दक्षं यक्षं सुनुच्छायासारङ्ग (१३) सौव्या वाण्या गाम्भीर्येण ध्वस्तोद्गर्जत्सारङ्गम् (१४) अर्हत्सर्पद्वाक्योद्गर्जत् पर्जन्याम्भःसारङ्गं (१५) बन्दे वीडॉकामक्रीडौंकासारश्रीसारङ्गम् (१६)॥ ४ ॥ इति श्रीऋषभस्तुतिः कामक्रीडाख्या। अथ ऋषभजिनस्तुतिः । स्रग्धराछन्दः। आनन्दानम्रकम्रत्रिदशपतिशिरःस्फारकोटीरकोटी प्रेङ्खन्माणिक्यमालाशुचिरुचिलहरीधौतपादारविन्दम् । आद्यं तीर्थाधिराज भुवनभवभृतां कर्ममर्मापहारं वन्दे शत्रुक्षयाख्यं क्षितिधरकमलाकण्ठशृङ्गारहारम् ॥१॥ माद्यन्मोहद्विपेन्द्रस्फुटकरटतटीपाटने पाटवं ये बिभ्राणाः शौर्यसारा रुचिरतपरुचां भूषणायोचितानाम् । कमलेषु प्रकटीभूतप्रमोदजलरुहपालीषु सारङ्ग-हंसम् । १६ अज्ञानसमूह्जलधरश्रेणीहरणविषये दृप्यत् माद्यत् सारङ्ग-वायुम् । १७ अभिवन्दितृणाम् । १८ भयकाष्ठानाम् । १९ पञ्जरवृक्षे सारङ्गं शुकसदृशम् । २० अहं जैनाधिष्ठायकं दर्श-प्रवीणं यक्षं शोभनकान्त्या प्रवालसदृशम् । २१ वकीयया वाचा । २२ गम्भीरत्वेन । २३ निराकृतगर्जायमानमेघसदृशम् । २४ जितविस्तारिवचनरूपगारवयुक्तजलधरजलपाने सारङ्गं चातकम् । २५ लज्जायुतकामकेलितडागलक्ष्मीशोभाकारि सारङ्गं-कमलम् । २६ सर्वगुर्वक्षरमयं कामक्रीडाख्यं १५ वर्णात्मकं छन्दः। .. Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy