________________
१७७
प्रकुरु जिन ! सनाथः स्यां यथाऽघोपनाथ .. प्रणतविबुधनाथः प्राज्यसच्छ्रीसनाथ ! ॥ १७ ॥ अवगमसवितारं विश्वविश्वेशितारं ___ तनुरुचिजिततारं सहयासान्द्रतारम् । - जिनमभिनसतारं भव्यलोकावतारं ... यदि पुनरवतारं संसृतौ नेच्छताऽरम् ॥ १८ ॥
अनिशमहिनि शान्तं प्राप्य यः सन्निशान्तं _ नमति शिवनिशान्तं मल्लिनाथं प्रशान्तम् । अधिपमिह विशां तं श्रीर्गता चावशाऽन्तं । श्रयति दुरितशान्तं प्रोज्य नित्यं वशान्तम् ॥ १९ ॥ निद्धतमथ वासः प्रोल्लसच्छुद्धवासः
परिहृतगृहवासः स्यांसकेयस्य वासः ।
गम्यते । 'अचं दुःखे व्यसनैनसो' रित्यनेकार्थः । तान्युपनाथति उपतापयतीति, प्राज्या प्रभूता ॥ १७ ॥ अवगमेन ज्ञानप्रकाशेन सूर्य, समग्रविश्वनायकं, तार कनकं, 'रदरुचिततार' मिति वा पाठः। ते च ताराः निर्मला मौक्तिकानि नक्षत्राणि वा । यदनेकार्थः 'तारो निर्मलमौक्तिके । मुक्ताशुद्धौ च नादे च नक्षत्रे नेत्रमध्ययो' रित्यादि, सान्द्रा बहला सार्दा वा । वीतरागादन्यैस्तारयितुमशक्यं, अवतरणं नो कृतम् ॥ १८ ॥ नितरामुपशमवन्तं, प्रभातसमयं, कल्याणहेतुत्वात् तन्मयत्वात् कल्याणभवनं, यद्वा शिवं मुक्तिपदमेव निशान्तं तत्र लीनत्वात् सदनं यस्य स तम् । सौम्याकार, इह अस्मिन् जन्मनि विशां नराणां श्रीः अन्तर्निकटं गता प्राप्तासती । यदनेकार्थः-'अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवे. ऽपी ति, तत्, पुनः प्राग्भ्रमयन्त्रितत्वादवशा, दुरितानां शान्तं शमनं यत्र तम्, वशा स्त्री वन्ध्यगवी वा, यदाह-वशा नार्या वन्ध्यगव्यां हस्तिन्यां दुहितर्यपी'ति, तस्या अन्तःस्वरूपं चपलत्वं निःफलत्वं वा तं प्रोज्झ्य ॥१९॥ धारयामास देवदुष्यत्वात् शोभनवासः इत्यत्र योगः, प्रोलसच्छुद्धवासः, मन इति 'उपान्वध्या
स्त्रो. स. १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org