________________
१७६
भविकमलचयेन स्फूर्जदूर्जव्ययेन
द्विरदगतिनयेन त्येन भाव्यं सयेन ॥ १४ ॥
जडिमरविसधर्मन्नुक्तदानादिधर्मा
t
त्रुटितमदनधर्मन्यक्कृता प्राज्ञधर्म ! जयति नवरधर्म त्यक्तसंसारिधर्म प्रतिनिगदितधर्मद्रव्यमुख्यार्थधर्म ! ॥ १५ ॥ यदि नियतमशान्तिं नेतुमिच्छोपशान्ति
समभिलषत शान्तिं तद् द्विधाऽप्याप्तशान्तिम् । प्रहतजगदशान्ति जन्मतोऽप्यात्तशान्ति
नमत विनतशान्ति हे जना ! देवशान्तिम् ॥ १६ ॥ ननु सुरवरना (थ) त्वं न नाथे नृनाथ !
त्वमपि विगतनाथः किन्त्वहं कुन्थुनाथ ! |
,
मतपोन्यायमार्गवर्तिना, यद्वा प्रवरतरा नया नैगमादयो यस्य सः हे इन ! स्फुर्जन् ऊर्जस्वी अयो यस्य स तेन द्विरदगतिवत् नयो यानं गमनं यस्य स तेन, तया लक्ष्म्या सह वर्तते तेन ॥ १४ ॥ रविसमान, त्रुटितमदनचाप 'धर्मो यमोपमापुण्यस्वभावाचारधन्वसु, सत्सङ्गेऽर्हत्यहिंसादौ न्यायोपनिषदोरपि' इत्यनेकार्थः, मूढानां धर्मः स्वभावः, संसारिजनाचारधर्मास्तिकायद्रव्यमुख्य पदार्थानां धर्म उपनिषदूरहस्यं येन ॥ १५ ॥ अशान्ति अकल्याणं, उपशान्तिमुपशमं, इच्छा युष्माकमस्तीत्युपस्कारः, यदि च समभिलषत यूयमिति गम्यम्, शान्ति कल्याणं, यदनेकार्थः । 'शान्तिभद्रे शयेऽर्हती' ति, तस्माद्धेतोः द्वेधाऽपि पूर्वोक्तप्रकारद्वयेनाsपि, शान्ति नमतेति सम्बन्धः, शान्तिर्निर्वाणं 'निर्वाणे स्यान्च्छिती - भावः शान्तिनैश्चिन्त्यमन्तिक' इति शेषवचनात् पुराविर्भूताशिवोपशमात् प्रहतभुवनाशिवं उपलक्षणत्वाद् गर्भवासाद्यपि, यदार्थम् -'जाओ असिवोवसमो गब्भगए तेण संति जिष्णुत्ति' अङ्गीकृतशमम्, विनम्रीभूतब्रह्मशान्तियक्षम् ॥ १६ ॥ ननुशब्दो वाक्यारम्भनिश्चयामन्त्रणेषु इह, ततस्त्वं न नाथेति पदत्रयं
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org