SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ विषमविशिखदोषाचारि(वा)रिप्रदोषा प्रतिविधति सदोषाप्यस्य किं कालदोषा । य इह वदनदोषापार्चिषाऽक्षालिदोषा तनुकमलमदोषा श्रेयसा शस्तदोषा ॥ ११ ॥ कृतकुमतपिधानं सत्त्वरक्षावधानं विहितदमविधानं सर्वलोकप्रधानम् । असमशमनिधानं सञ्जिनं सन्दधानं नमत सदुपधानं वासुपूज्याभिधानम् ॥ १२ ॥ भवदवजलवाहः कर्मकुम्भाद्यवाहः शिवपुरपथवाहस्त्यक्तलोकप्रवाहः । विमल ! जय सुवाहः सिद्धिकान्ताविवाहः _ शमितकरणवाहः शान्ततृड्हव्यवाहः ॥ १३ ॥ जिनवर ! विनयेन श्रीशशुद्धाशयेन __ प्रवरतरनयेन त्वं नतोऽनन्त ! येन । पञ्चबाण एव रात्रौ चरणशीलवादोषाचारी राक्षसस्तस्य चारेण प्रकृष्टं दोषस्थलं यस्यां स किं प्रतिकूलं करोति ? विधत् विधाने, कलिकाल एव दोषा रात्रि: वदनमेव दोषापश्चन्द्रस्तस्वार्चिषा, क्षलण् शौचे, दोषा एवाऽनल्पकमलानि तेषां मदो विकाशस्तं उषति सङ्कोचाइहति, श्रेयसा श्रेयांसेन शस्तौ दोषौ बाहू यस्य ॥ ११ ॥ पिधानमाच्छादनं, अवधानं सावधानम् , शमनिधानं शोभनतपश्चरणम् ॥ १२ ॥ कर्माण्येव कुम्भादयः, आदिशब्दात् स्थालीकरकादयः, तेषां पाकाय दहनाय वा अवाहः पाकस्थानम् , नन्वेवं पाकसादृश्यात् कर्मणां दाळमुक्त स्यात्तच्च भगवतस्तक्षणप्रवणखादौचिती नाऽञ्चन्ति, अत्रोच्यते, अपक्ककुम्भादयो हि भमा अप्यविनष्टमृदुद्रव्यखाज्जलादिसम्पर्कस्येति पुनः सद्रूपतां भजन्ते, नतु पक्ककुम्भादय इव कर्मणीत्यदोषः, सार्थवाहः तात्त्विकत्वात् शोभनभुजः, सिद्धिकान्तां विवहति परिणयतीति अण् प्र०, शमितविषयतृष्णाग्निः ॥ १३ ॥ उत्त. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy