________________
१७४
कृतकरणदमो हन्तास्तलोभं नुमोऽहं
मतिहृतमसमोहं तं सुपार्श्व तमोहम् ॥ ७ ॥
समतृणमणिभावो ज्ञातनिःशेषभावः
प्रहतसकलभावः प्रत्यनीकप्रभावः । कृतमदपरिभावः श्रीशचन्द्रप्रभावद्
द्विजपतितनुभावस्त्यक्तकामस्वभावः ॥ ८ ॥ निजपतिसुविधेयः स्यात्त्वदाज्ञाविधेया
प्रवण इह विधेयः प्रस्फुरद्भागधेयः । त्रिजगदनपधेयः श्लाघ्यसन्नामधेय -
श्रयति शुभविधेयस्तं लसद्रूपधेयः ॥ ९ ॥ य इह नियतकामं मुक्तराज्यादिकामं प्रणतसुरनिकामं त्यक्तसद्भोगकामम् । नमति स निजकामं शीतल ! त्वां प्रकामं
श्रयत कितमकामं सार्विका श्रीः स्वकामम् ॥ १० ॥
.
भङ्गदोषाभावः, निरुपमतम प्रशमः, मोहसहितं हन्त निश्चयादौ, अहंमतिरज्ञानं हरतीति तम्, असम ऊहो विमर्शो यस्य तम् ॥ ७ ॥ भावोऽभिप्रायः, भावा धर्मास्तिकायादयः, 'भावोऽभिप्रायवस्तुनो' रित्यनेकार्थः, प्रभावः प्रतापः । परिभावः पराभवः । भव्यानीति गम्यम् । चन्द्रवच्छरीरस्य भावः सुवर्णत्वात् स्वरूपं यस्य ॥८॥ विधेयं कार्यं तत्करणे प्रवणः, विधेयो विनयस्थः स्यात्, भागधेयं भाग्यम्, यद्वा त्रिजगदनपधेयः, श्लाध्यं सन्नामधेयं यस्य, शुभभाग्यं रूपमेव रूपधेयं यस्येत्यत्र 'नामरूपभागाद् धेयः' इति खार्थे धेयप्रत्ययः ॥ ९ ॥ काममभिलाषं निकाममतिशयेन, भोगो भोग्यवस्तूनि, कामश्च काम्यवस्तूनि च खाभिलाषं यथा स्यात्तथा, काममत्यन्तं, कः श्रयते को भजते ? इह त्यादिसर्वादेः खरेष्वन्त्यात् पूर्वोक्तं इत्यनेन श्रयतिक्रियायाः अन्त्यखरात् प्राक् प्रत्ययः, अकामं निरीहं, यद्वा अकं दुःखं आमयति पीडयतीति अकामः, सर्वज्ञसम्बन्धिनी, स्वकामं स्वेच्छया ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org