________________
१५८ वदननिर्जितदीप्तिरसौ श्रितः शितकरः किल लक्षणदम्भतः । सपदि यं महसेनतनूद्भवं नमत तं मतपूतमनोभवम् ॥ ८ ॥ रजतधौतशिलातलदीधितिं विरतिकैरविणीहिमदीधितिम् ।.. लघु भजे सुविधि मकरध्वजं जिनवरं नवरङ्गरतोरुजम् ॥ ९॥ रजतहारतुषारनिशाकरत्रिपथगाहरगौरगुणाकरम् ।। पथविहारपवित्रितभूतलं लसदयं सदयं श्रय शीतलम् ।।१०।। विविधरोगतरङ्गभयङ्करं कथमसौ तरताद्भवसागरम् । नमति विष्णुनृपाङ्गज! यः पदौ न हि तवेहितवेगसुसिद्धिदौ ११ जिनपते ! वसुपूज्यनृपाङ्गज ! स्मरमहीरुहमत्तमतङ्गज!। जय पुरन्दरवन्दित! सन्मते ! विमलकोमलकोकनदद्युते ! ॥१२॥ विमलदेव ! विभो ! मम मानसं कुरु शमामृतधारणमानसम् । जिनपते! यदि शासनमापते परमया रमयालमुरुद्युते ! ॥१३॥ त्रिभुवनाधिपनिर्मितमाननः शिवमनन्तजिनो वनजाननः । मम तनोतु समीहितदानतः सुरमणीरमणीयशमाञ्चितः ॥१४॥ नृपतिभानुकुलाम्बरभानवे घनतमोवनदाहकृशानवे । अममधर्मजिनेश! नमोनमः शुभवते भवते भवतान्मम ॥१५॥ सदयमानसदुःखनिवारक ! स्फुरितबोधजगच्छिवकारक ! । मुनिप ! शान्तिविभो! शिवसंपदं सुनयनो नयनो विगतापदम् ।। कुपथवारिधिमन्थनमन्दरं विनयसादरनम्रपुरन्दरम् । भजत शूरनरेशितुरुत्तमं श्रितनयं तनयं जिनसत्तमम् ॥ १७ ॥ अरविभो ! भुवनाद्भुतभूषण! प्रमृतिसंसृतिवारिधिशोषण!। भवतु नाथ ! गतान्तरदुस्तमःप्रवरसंवरसङ्गत ! ते नमः ॥१८॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |