SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ इत्थं पुण्यसुधाब्धिधौतधिषणा येऽहंञ्चतुर्विशतेः , स्तोत्राण्यद्भुतभक्तिभावितहृदः कुर्वन्त्यखर्वादराः । संसारार्णवपारमप्यपरमं निश्रेयसश्रेयसां स्थानं जन्मजराविनाशरहितं गच्छन्ति ते शाश्वतम् ॥२९॥ ॥ इति श्रीचतुर्विंशतिजिनस्तोत्रं स्तुतयश्चापि भवन्ति ॥ चतुर्विंशतिजिनस्तवनम् । सकलमङ्गलभूरुहजीवनं जिनपतिं जगतीजनजीवनम् । नमत नाभिसुतं वरचिन्मयं गजगतिं जगति प्रभुतालयम् ॥१॥ अजितदेव! सुधारससोदरां विमलगाङ्गतरङ्गमनोहराम् । तव निशम्य गिरं जितदुर्मतां परमते रमते न मतिः सताम् ॥२॥ वरजितारिनरेश्वरसम्भवं भजत भव्यजनाः प्रभुसम्भवम् । भवनिवासहरं हयलाञ्छनं स्मरविकारविकाशहरं जिनम् ॥३॥ अव भवाद् भगवन् ! भवभञ्जन ! प्रणतसज्जनमानसरञ्जन ! । रुचिरसंवत ! संवरनन्दन ! ध्रुवरमावर मामभिनन्दन! ॥४॥ मदनमानविमर्दनशङ्करं श्रयत केवलदीप्तिदिवाकरम् । सुमतितीर्थपति नतविष्टपं करणवारणवारमृगाधिपम् ॥ ५॥ प्रवरशर्मद ! धर्मधुरोद्वहे धरणिनाथधरप्रथितोद्वहे । कमलचिह्न ! जिन ! त्वयि मानसं वरमते! रमते मम लालसम् ६ जिन सुपार्श्व विभो ! तव भारती भविकचित्तशिलीमुखमालती। दिशतु तीर्थिकवाग्भिरतामसा शमधुता मधुतासनसदसा ॥७॥ . १ एतत्काव्यत्रयेण सह यदि पठ्यन्ते नमस्कारास्तदा स्तुतयो भवन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy