________________
श्रीअश्वसेनतनयः श्रितयक्षपार्श्वः __ पार्श्वः श्रिये भवतु वः सुरसेव्यपार्श्वः ॥ २३ ॥ श्रीभारतावनिविभूषणवर्धमानः
शीतांशुशुभ्रयशसा परिवर्धमानः । कैवल्यबोधकमलाश्रयवर्धमानः
कल्याणकन्दजलदोऽवतु वर्धमानः ॥ २४ ॥ दुःप्रापतापशमनामृतगीरमानो ____ मानाद्रिकीलनकलाकुलिशायमानः । त्रैलोक्यवर्तिसकलामलतत्त्ववेत्ता ___ सार्वप्रभुर्भवतु वो भवभीतिभेत्ता ॥ २५ ॥ मोहान्धकारनिकरक्षयसप्तवाहाः
सल्लोककेकिकुलकेलिकलाम्बुवाहाः । तीर्थेश्वरा विहितसिद्धिवधूविवाहा
भूत्यै भवन्तु मदनेन्धनहव्यवाहाः ॥ २६ ॥ सद्बोधिबीजजनकं जनपापताप
व्यापव्यपायकरणप्रसरप्रशस्यम् । हृष्यन्मुनित्रिशिखिनं कृतशस्यसंपत्
संपत्तिमागमधनागममानयामि ॥ २७ ॥ श्रीवीरशासनविभासनबद्धकक्षा
हंसासना कुमतिशासनलब्धलक्ष्या। श्रीशारदा कृतविशारदबुद्धिरिद्ध
__ श्रीः शारदेन्दुविशदद्युतिरस्तु शान्त्यै ॥ २८ ॥ १ एभिस्त्रिभिः काव्यैः प्रतिकाव्यं पठनाच्चतुर्विंशतिजिनानां स्तुतयो भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org