________________
થય
सद्दर्शनप्रमदकृन्निजदर्शनेन श्रीमत्सुदर्शनसुतस्तत दर्शनश्रीः । श्रीमानरः श्रितनरप्रकरस्य भूत्यै सार्वप्रभुर्भवतु सप्तमसार्वभौमः ॥ १८ ॥
श्री कुम्भसम्भवजनिं भववारिराशिश्री कुम्भसम्भवसमं समतासमेतम् । कल्याणवल्लिजलदं जितमोहमल
मल्लिप्रभुं नमत रोचिरपास्तमल्लिम् ॥ १९ ॥ वृन्दारकप्रकरवन्दितपादपद्मं
पद्माङ्गजं विमल केवलबोधपद्मम् । श्रीसुव्रतं व्रतततिव्रततीपयों
सिद्धिप्रसिद्धवनितापतिमर्चयामि ॥ २० ॥
सत्तापनीयकमनीयरुचिप्रपञ्चं पञ्चेषुवारणनिवारणपञ्चवक्रम् |
श्रीमन्नमिं नमदमर्त्यपतिं प्रतीत
संख्याव्यतीत गुणगेहमहं महामि ॥ २१ ॥ जातः समुद्रविजयान्नतनैकनाकि
व्रातः समुद्रविजयात्तगभीरिमश्रीः ।
कन्दर्पदर्पपरिणाशशिवः शिवासूः
शैवं शिवं वितनुतामतनुप्रतापः ॥ २२ ॥ स्फारस्फुरत्फणिफणामणिदीप्तदीप्तिचित्रीयितत्रिजगतीजनचित्तवृत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org