________________
१५४
श्रीवासुपूज्यभगवान् वसुपूज्यजन्मा
बाभस्ति नूतनगभस्तिगभस्तिशस्तः ॥ १२ ॥ आनन्दमेदुरपुरन्दरवन्दवन्द्य___ पादारविन्दयमलं विमलं जिनेन्द्रम् । विश्वम्भरावलयशोभियशोभिरिद्धं
वन्दे स भक्तिरसमस्तसमस्तमारम् ॥ १३ ॥ नम्रामरेश्वरनरावलिमौलिमौलि
मालाकलापकलितात्रियुगोपहारम् ।। व्याहारनिर्मितसमग्रजनावबोधं
संस्तौम्यनन्तभगवन्तमनन्तबोधम् ॥ १४ ॥ श्रीभानुभूपतिकुलार्णवशीतभानु
त्रैलोक्यलोकहृदयाम्बुजबोधभानुः । दुष्कर्ममर्ममथनः शिवशर्मधर्मः __स्फूर्जत्तनुस्तनुमतां तनुतां नतानाम् ॥ १५॥ श्रीविश्वसेनतनयः पदपूतविश्वः ___ कुन्देन्दुगौरगुणगाहितविश्वविश्वः । श्रीशान्तिरन्तरहितान्तकृते प्रशान्त
संसारतान्तिरचिरादचिरासुतोऽस्तु ॥ १६ ॥ श्रीनन्दनः कुशलनन्दनकृन्निरस्त- श्रीनन्दनः कुशलपङ्कजपद्मबन्धुः। विश्वेश्वरः समनमनरनाथकुन्थुः
कुन्थुर्जिनः स वृजिनबततीश्छिनत्तु ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org