________________
१५३
सौभाग्यभाग्यकमलाकमलायमानः
संख्याव्यतीतगुणराजिविराजमानः । कार्तस्वरप्रवररोचिरनर्गलानि
दद्यात्सुपार्श्वभगवानिह मङ्गलानि ॥ ७ ॥ विश्वेशिता विमलकेवलबोधलोका
लोकावलोकनकलाकलितस्वरूपः । चन्द्रप्रभप्रभुरभङ्गशुभाय पूर्ण
चन्द्रप्रभः प्रभवतात्प्रकरप्रभावः ॥ ८ ॥ राकाशशाङ्कविशदद्युतिदीप्यमानं
दीपोपमानमघसन्तमसाऽस्तमानम् । कीर्तिप्रतापपरितर्जितपुष्पदन्तं
श्रीपुष्पदन्तभगवन्तमहं भजामि ॥ ९॥ प्रास्तप्रवादिनिकृतिः कृतिलोककोक
सन्तोषपोषकुशलः कुशलप्रणम्यः । श्रीशीतलः सरसशीतलवाग्विलासः
कुर्यात्सतां तनुमतां नमतां मतानि ॥ १० ॥ भव्याङ्गिनाममितकामितकल्पवृक्ष
प्रत्यक्षलक्ष्यगुणरञ्जितदक्षलक्षः । श्रेयांसतीर्थपतिरजिनमत्सकर्णः
श्रेयांसि यच्छतु सुवर्णसवर्णवर्णः॥ ११ ॥ अज्ञानसन्ततितमिस्रसहस्रपादः
सद्भूतभक्तिभरवासवपूज्यपादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org