SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ दनुजजिद्भुजवीर्यमदज्वरप्रशमनैकभिषग्वरदोर्बलम् । नमत नेमि जिनं भुवनत्रयीसुरतरू रतरुद्रतरुद्विषाम् (?) ॥२२॥ शिवसुखस्य कथामपि वेदिता न खलु सा जनता जिन! कर्हिचित्। सृजति या जिन ! पार्श्व ! कुवासनाशतवशात् तव शासनलङ्घनम्॥ चलनकोटिविघट्टनचञ्चलीकृतसुराचल ! वीर जगद्गुरो!। त्रिभुवनाशिवनाशविधौ जिनप्रभवते भवते भगवन् ! नमः॥२४॥ स्वरवतारजनीव्रतकेवलाक्षरपदाप्तिदिनानि पुनन्तु नः । भगवतां विद्धन्ति जगत्रयीमुदमितां दमितान्तरविद्विषाम् २५ जिनवराः कुणपालिमृणालिनीमुकुलनैकतुषारमरीचयः । विदधतं प्रणतं जिनमाहतस्मरचयं रचयन्तु मनाशिनः ॥ २६ ॥ भगवताऽभिहितार्थमधीयतां कुपथमाथि कदर्थितमन्मथम् । श्रुतमुदात्तमुदात्तपरस्परं स्वरचितं रचितं गणधारिभिः ॥२७॥ प्रथमकल्पपतिः प्रथितायतिः प्रवचनाम्बुजसौरभषट्पदः । कुलिशशोभितपाणिरुपप्लवं शमयतामयतामिह नम्रताम् ॥ २८॥ इति जिनप्रभसूरिभिरीडिताः प्रणतभव्यजनाय जिनाधिपाः । ददतु शीलितसिद्धिवधूमुखाऽम्बुजरसा जरसा रहितं पदम्॥२९॥ इति श्रीजिनप्रभसूरिविरचितं चतुर्विंशतिजिनस्तोत्रम् । चतुर्विंशतिजिनस्तुतयः। श्रीजिनप्रभसूरिकृताः। आनन्दसुन्दरपुरन्दरनम्रमौलिमौलिप्रभासलिलधौतपदारविन्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy