________________
जयति शीतलदेव ! सरस्वती त्रिजगतीं पुनती कविसेविता । मधुरिमातिशयेन तृणीकृतामृतरसा तरसाऽस्ततृषा तव ॥१०॥ जिनवरोऽवतु गण्डकलाञ्छनः प्रथमविष्णुनताभिसरोरुहः । प्रथितविष्णुनृपाम्बरपुष्कराम्बरमणी रमणीयगुणाम्बुधिः॥११॥ मुनिपतिर्वसुपूज्यनृपात्मभूर्जयति निर्जितदुर्जयचित्तभूः । सुजनकोककदम्बकलोचनोत्सवरविर्वरविद्रुमविग्रहः ॥ १२ ॥ सुकृतिनः कृतवर्मधराधवान्वयनभस्तलभासनभास्करम् । श्रयत काश्चनवारिरुहच्छदच्छविमलं विमलं जगदीश्वरम् ॥१३॥ उपनमन्ति तमीश! समुत्सुकाः प्रणयतो वरितुं सकलाः श्रियः । जगति तुभ्यमनन्त ! नमस्क्रियामकलये कलयेद्विनयेन यः॥१४॥ अवतु धर्मजिनेन्द्र ! कुभावनारजनिनाशनसप्तहयोदय !। शममयः समयस्तव सुव्रतातनय ! मां नय मांसलविस्तर! १५ हृदयनायक! चक्रिजिनश्रियोः द्विचिविरिजयोर्जितिविक्रमः (?)। भवभयानि भिनत्तु भवान् मतानुग विशाङ्गविशानि विभो ! भवान् किमतितीव्रतपोव्रतशीलनैः किमुत योगरहस्यनिषेवणैः। दलयितुं कुगतिं यदि वो रुचिर्वृजिनकुं जिनकुन्थुरुपास्यताम् १७ प्रणतवासवमौलिमणिप्रभापटलसंवलिताशिनखत्विषः । स्मरत भव्यजनाः ! स्मरकुञ्जराङ्कुशमरं शमरजितसज्जनम् १८ अभिनुमः प्रभुमल्लिमपाकृतस्मरशरप्रसरां शिशुतावधिः ।। मरकतद्युतिदर्पविलोपनक्षमविभामविभाव्यगुणश्रियम् ॥ १९॥ कमठलक्ष्मणि लक्ष्मिनिकेतने परिहितव्रतशालिनि सुव्रते। अविरतं मम भक्तिरसः स्फुरत्वनवमे नवमेघतनुद्युतौ ॥२०॥ अलमृभुक्षपदेन सृतं धनैर्युवतिभिः कृतमस्तु नृपश्रिया । न रुचये मम मुक्तिपदं तव स्तवनमेव नमे भवतु प्रियम् ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org