________________
१४९
चतुर्विंशतिजिनस्तोत्रम् । जिनप्रभसूरिकृतम्।
ऋषभनम्रसुरासुरशेखरप्रपतयालुपरागपिशङ्गितम् । क्रमसरोजमहं तव मौलिना जिन! वहे नवहेमतनुश्रुते! ॥१॥ अपरवस्तुविलोकनलालसाविषनिषेधबुधां सुषमासुधाम् । वपुषि ते पिबतां मम चक्षुषी अजित ! भाजितभास्वरकाञ्चन(नां)२ हरिहरादिसुरौघविलक्षणाद्भुतचरित्रचमत्कृतविष्टपम् । सुजन भो पदपीठविलूलुठत्सुमनसं मनसम्भवदेवतम् ॥३॥ मदनदुर्दमदन्तिदमे हरिस्तरमृगाङ्कितमूर्तिरुपाश्रितान् । हृतमहारजतातिरग्रणीः शमवतामवतादभिनन्दनः ॥ ४ ॥ चरणलक्ष्मिकरग्रहणोत्सवे विरचितैरयनद्वितयावधि । धृतसुखाऽतिशया वसुवर्षणैर्वसुमतिः सुमतिः सकृपा त्वया ॥५॥ स्मितजपाकुसुमोपमदीधितिं कुमतकोककुलामृतदीधितिम् । शरणमीशमुपैमि जगत्रयीमुदरविन्दरविं धरनन्दनम् ॥ ६॥ सकललोकचमत्कृतिकारिणी जिन ! सुपार्श्व ! भवद्गुणधोरणी । क इव नो मतिमान् भुवनत्रये कुमुदभामुदभावयदुच्चकैः ।। ७ ॥ शुचियदङ्गरुचा नु पराजितः शशधरोऽकमिषाद्यमशिश्रियत् । सपदि लोचनयोर्मम कल्पतां स महसे महसेनसुतो जिनः ॥८॥ सुविधितीर्थकरं करुणाकरं करणविष्किरपाशमुपास्महे । करणकान्तिविनिर्जितकार्तिकीहिमकरं मकरं दधतं ध्वजम् ।।९।।
१ एभिस्त्रिभिःकाव्यैः प्रतिकाव्यं संयोजितैश्चतुर्विंशतिजिनानां स्तुतयो भवन्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org