________________
१४८
वरसुमित्रकुलाम्बरभास्करं भवमरुस्थलकल्पमहीरुहम् । जिनवरं कलकृष्णविभाभरं तमिह सुव्रततीर्थकरं स्तुवे ॥२०॥ विजयभूपकुलाम्बुनिधौ विधुं नवपदावलिबोधितमानवम् । शिवनिवासमहासुखलालसं नमिजिनेश्वरमादरतः स्तुवे ॥२१॥ वरसमुद्रशिवाकुलदीपकं हरिनिषेवितपादयुगं मुदा । सकलजीवविमोक्षकरं वरं विमलशङ्खभृतं प्रणमाम्यहम् ॥२२॥ कमठमानविभजनकोविदं धरणसेवितचारुपदाम्बुजम् । प्रणतलोकसमीहितपूरकं गतभवं वरपार्श्वजिनं स्तुवे ॥ २३ ॥ प्रवरकुण्डनराधिपनन्दनं वरमहाव्रतपञ्चविकाशकम् । कृतसुराधिपमोक्षमहोत्सवं चरमतीर्थपतिं सुतरां स्तुवे ॥२४॥ इति मया वरतीर्थकराः स्तुताः सकलभव्यजनौघनतक्रमाः। सुमुनिशेखरसूरिनिषेविता मम भवन्तु जिनाः सुमुदा हि ते २५ त्रिभुवनस्य सदा तिलका जिनाः प्रवरकेवलभासितभूतलाः । सकलमानवभूपतिसेविता मम भवन्तु महोदयदायकाः ॥२६॥ गुरुगमावलिनीरसपूरितं सुपरिपद्धतिवेलविराजितम् । सकलजीवदयामणिसङ्कुलं जिनवरागमवारिनिधिं स्तुवे ॥२७॥ श्रुतवतां दमिनां हितकारिणी मधुपचुम्बितपद्मनिवासिनी । सकलसौख्यकरी श्रुतदेवता भविकलोकविबोधकरा स्तुता ॥२८॥
(एभिस्त्रिभिः काव्यैश्चतुर्विंशतिजिनानां स्तुतयो भवन्ति) इति श्रीचतुर्विंशतिजिनस्तवनं सं. १८५१ वर्षे मागशरसुदि १३ रवौ
लि. सुंभुराम. सुरतबंदिरे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org