________________
प्रणतदेवनराधिपमण्डलो भुवनभासुरचन्द्रनिषेवितः । प्रकटिताखिलसिद्धनिकेतनो विजयतां वरचन्द्ररुचिर्जिनः ॥४॥ प्रवरदानवदेवनिषेवितं सकलजीवविनाशितसंशयम् । त्रिदशपूजितपादयुगं मुदा सुविधिनाथजिनं प्रणमाम्यहम् ॥९॥ निजयशोभरभासितभूतलं वरविहारविबोधितविष्टपम् । भविककानननूतननीरदं प्रवरशीतलतीर्थकरं स्तुवे ॥१०॥ भवपयोधिविशोषघटोद्भवं भविककैरवबोधनिशापतिम् । नरसुरेन्द्रनतं प्रवरं जिनं नृवरविष्णुसुतं प्रणमाम्यहम् ॥११॥ कुगतिरेणुनिवारणवारिदं भवमहीरुहभजनवारणम् । विकृतिकाननदाहदवानलं महिषलाञ्छनतीर्थकरं स्तुवे ॥ १२ ॥ विमलकीर्तिभरं विमलाशयं प्रवरसिद्धिकरं जनतानतम् ।। मदनदाहनिवारणजीवनं विमलतीर्थकर सुखदं स्तुवे ॥ १३ ॥ विविधदेशविनेयविराजितं त्रिवरसालसुपूतमहीतलम् । चरणभारधुरावृषपुङ्गवं वरमनन्तजिनं प्रणमाम्यहम् ॥ १४ ॥ किल चतुर्गतिभीतिनिवारकं वरचतुर्विधधर्मविभाषकम् । नरचकोरदृशोर्हिमदीधितिं तमिह धर्मजिनं सुखदं स्तुवे ॥१५॥ प्रबलचक्रधरं भरताधिपं सकलराज्यधुरापरिहारकम् । वर(ब)यतीश्वरसंसदि सेवितं मृगधरं वरशान्तिजिनं स्तुवे ॥१६॥ गजपुरेश्वरशूरतनूरुहं वरसुराधिपवीजितचामरम् । गणधरादिमुनीश्वरसेवितं तमिह कुन्थुजिनं प्रणमाम्यहम्॥१७॥ सकलभारतभूतलसेवितं त्रिदशचापतनुं वरसौख्यदम् । सजलनीरदघोषनिभवनं कनककान्तिभरं प्रणमाम्यहम् ॥१८॥ प्रवरकुम्भिनराधिपनन्दनं विपुलभारतखण्डविभूषणम् । वरघटाङ्कितपादयुगं मुदा तमिह मल्लिजिनं प्रणमाम्यहम् ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org