SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४६* हस्तविन्यस्त सहकारफललुम्बिका हरतु दुरितानि देवी ! जगत्यम्बिका ॥ ७ ॥ इति जिनेश्वरसूरिभिरम्बिका भगवती शुभम पदैः स्तुता । प्रवरपात्रगता शुभसम्पदं वितरतु प्रणिहन्त्वशिवं मम ॥ ८ ॥ इति श्रीअम्बिकादेवीस्तुतिः । अथ चतुर्विंशतिजिनस्तुतयः स्तोत्राणि च । विनतवासवभूपति मण्डली मुकुटरत्नविभाभररञ्जितम् । जिनपदं प्रणिपत्य सुखालयं प्रवरमादिमतीर्थकरं स्तुवे ॥ १ ॥ वरमुदारगुणावलिराजितं कनककान्तिधरं गजलाञ्छनम् । भववनावलिभञ्जनवारणं सुविजयासुततीर्थकरं स्तुवे ॥ २ ॥ प्रबलमोहमहाकरिकेशरिन्नपगताखिलराग ! सुरस्तुत ! | वरद शम्भव ! देहि सुखालयं विमलकेवलभासितविष्टपम् ॥ ३ ॥ प्रणतजन्तुसमीहितकामदं भविकलोकविबोधकरं सदा । विहतमोहमहाभटसूदनं जिनपतिं प्रणमाम्यभिनन्दनम् ॥ ४ ॥ भवनिवासकुवासनिवारकं गतदरं करुणारस सागरम् । नवसरोजविभासितभूतलं जिनवरं सुमतिं प्रणमामि तम् ॥ ५ ॥ जनमनोज विकाशनभोमणे ! विमलकेवलबोधितभूतलम् । कमललान्छन ! शोणतनुद्यते ! वरमरालगते प्रणमामि ते ॥ ६ ॥ भवनिवासनिदाघघनाघनं सुरनराधिपमण्डलसेवितम् । जितभयं वरसौख्यकरं महत् किल नमामि सुपार्श्वजिनाधिपम् ७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy