________________
श्री अथाऽम्बिकास्तवनम् ॥१॥
पुण्ये गिरीशशिरसि प्रथितावतारा__ मासूत्रितत्रिजगतीदुरितापहाराम् । दौर्गत्यपातिजनताजनितावलम्बा
मम्बामहं महिमहैमवतीं महेयम् ॥ १॥ यद्वक्रकुञ्जरहरोद्गतसिंहनादोऽ
प्युन्मादिविनकरियूथकथाममाथम् । कूष्माण्डि खण्डयतु दुर्विनयेन कण्ठः
कण्ठीरवः स तव भक्तिनतेषु भीतिम् ॥ २ ॥ कूष्माण्डि ! मण्डनमभूत्तव पादपद्म
युग्मं यदीयहृदयावनिमण्डलस्य । पद्मालया नवनिवासविशेषलाभ
लुब्धा न धावति कुतोऽपि ततः परेण ॥३॥ दारिद्र्यदुर्दमतमःशमनप्रदीपाः
सन्तानकाननघनाघनवारिधाराः । दुःखोपतप्तजनबालमृणालदण्डाः ___ कूष्माण्डि ! पान्तु पदपद्मनखांशवस्ते ॥४॥ देवि! प्रकाशयति सन्ततमेष कामं
वामेतरस्तव करश्चरणानतानाम् । कुर्वन् पुरः प्रगुणितां सहकारलुम्बि
मम्बे विलम्बविकलस्य फलस्य लाभम् ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org