SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४४ हन्तुं जनस्य दुरितं त्वरिता त्वमेव नित्यं त्वमेव जिनशासनरक्षणाय । देवि ! त्वमेव पुरुषोत्तममाननीया काम विभासि विभया सभया त्वमेव ॥ ६ ॥ तेषां मृगेश्वरगरज्वरमारिवैरिदुर्वारवारणजलज्वलनोद्भवा भीः । उच्छृङ्खलं न खलु खेलति येषु धत्से वात्सल्यपल्लवितमम्बकमम्बिके ! त्वम् ॥ ७ ॥ देवि ! त्वदूर्जितजितप्रतिपन्थितीर्थयात्राविधौ बुधजनाननरङ्गसङ्गि । एतत्त्वयि स्तुतिनिभाद्भुतकल्पवल्ली हल्लीसकं सकलसङ्घमनोमुदेऽस्तु ॥ ८ ॥ वरदे ! कल्पवल्लि ! त्वं स्तुतिरूपे ! सरस्वति ! | पादायानुगतं भक्तं लम्भयस्वातुलैः फलैः ॥ ९॥ स्तोत्रं श्रोत्ररसायनं श्रुतसरस्वानम्बिकायाः पुर चक्रे गूर्जरचक्रवर्तिसचिवः श्रीवस्तुपालः कविः । प्रातः प्रातरधीयमानमनघं यच्चित्तवृत्तिं सता माधत्ते विभुतांच ताण्डवयति श्रेयः श्रियं पुष्यति ॥ १०॥ इत्यम्बिकास्तुतिः ॥ पुनरम्बिकास्तवनम् ॥ २ ॥ देवगन्धर्व विद्याधरैर्वन्दिते जय जयामित्रवित्रासने विश्रुते । नूपुरारावसुनिरुद्धभुवनोदरे मुखरतर किङ्किणीचारुतारखरे ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy