________________
नापायास: सदानो विभव परमतीराज ते शस्तयोगी
नापायासः सदा नो विभवपरमती राजते शस्तयोगी ॥२३॥ मुक्तोमन्दोदयोर्वी शमद कलकलाऽऽसातमोहारिदोऽश्री
मुक्तोमन्दोदयोर्वीश मदकलकलासाऽतमो हारिदोश्रीः । नीरागो वर्धमानाऽयमहजयभयासामहीनः सुधीरा
नीरागो वर्धमानाऽयमहजयभया साम हीनः सुधीरा ॥२४॥ ताऽस्य, श्रीमत् सश्रीकं पार्श्व समीपं वाऽस्येति हे श्री० ! हे प्रभा माहात्म्यं तेजः कान्तिर्वा उमा कीर्तिस्तयोरालय स्थान ! समितिषु इर्या भाषेषणादाननिक्षेपोत्सर्गाभिधासु मनोऽस्येति हे स०! हे श्रीमत् पार्श्वप्रभो श्रीपार्श्वजिन ! नास्ति मासु समवसृत्यादिश्रीषु लय आसक्तिरस्यति हेऽमा० ! “निर्द्रव्यपरमेश्वरा" इत्युक्तेर्नास्ति भवोऽस्यति हेऽवि० ! हेऽज ! विगतो भवोऽस्येति हे वि०! ते तव परं प्रकृष्टं मतं शासनं यस्य सः, ना पुमान् नो सदा शश्वद् राजते शोभतेऽपि तु राजत एवेति, ना किंभूतः ? न विद्यते जन्मनाशौ जनुःक्षयौ यस्य सोऽजन्मनाशोऽहताशः सज्जनः ! न हता छिन्नाऽऽशा वाञ्छाऽस्येति वा । समितिः सङ्ग्रामो मनोजन्मा स्मरस्तौ नाशयत्यपनयति यः स समि० । न हताशः कृपापात्रमित्यहताशोऽदीन इत्यर्थः, अपायासो गतप्रयासः, सह दानेन वर्तत इति स सदानः, परा प्रकृष्टा मतिर्बुद्धिस्तस्या इरा स्थानम्, शस्ताः प्रशस्ता योगाः मनःप्रभृतयोऽस्य स श० । अपायाननर्थानस्यति क्षिपति यः सोऽपायासः । शस्तः शुभो योगोऽलब्धलाभो ज्ञानं यस्य स शस्तयोगीति ॥ २३ ॥ हे शमद ! कला मनोज्ञा कला यस्येति हे क० ! नास्ति सातं सुखं यस्मात् स चाऽसौ मोहारिश्च तम् , यद्वाऽसातमोहारी दुःखमोहद्विषो यति छिनत्तीति सः तथाऽमन्दोऽजिह्म उदयोऽस्येति हेऽमं! उरुः प्रौढः स चाऽसौ ईशश्च, यद्वा हे उर्वी पृथ्वी तस्या ईश! उर्वीत्युपलक्षणं तेन भूर्भुवःस्वस्त्रयीश इत्यर्थः । मदकलकलौ गर्वकलहौ अस्यति क्षिपतीति हेऽम० ! नास्ति तमोऽज्ञानमस्येति हेऽतमः! वर्धमाना एधमाना अयमहजया भाग्योत्सवविजया अस्येति हे वर्ध०! हे सुधीर निष्प्रकम्प! न विद्यते ईरागौ क्षेपापराधौ अस्येति हेऽनी! हे वर्धमान महावीर ! अयमानविरतीर्हन्तीति हेऽय! न सहाऽमेन रोगेणाऽस्तीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |