________________
१३८
एवं श्रीनाभिसूनुप्रभृतिजिनवराः षोडशाऽष्टौ च विश्वे विख्याताः संपुटाख्याऽसमतमय मकैः संस्तुता भूरिभक्त्या । मह्यं महाक्रमाब्जार विशशिभवनव्यन्तर स्वर्गिराजां सिद्धिश्रीकार्मणं श्रागतिगुरुददतां दुर्लभं बोधिरत्नम् ॥२५॥
॥ इति पण्डितवरश्रीधर्मशेखरगणिकृतो जिनस्तवः ॥
हेsसाम ! हे साम सुकुमालेति वा त्वं जय नन्देति । किंभूतः ? मुक्तः सिद्धः, अमन्दोऽनलसः, दयोवीं कृपास्थानं, अश्रिया अलक्ष्म्या मुक्तो रहितः, हारिणी मनोज्ञा दोःश्रीर्भुजविक्रमोऽस्य स हारि० नीरागो वीतरागः, भयं भीरसामानयविशेषस्ताभ्यां हीनः रहितस्तया भया कान्त्या हि निश्चितमिनः सूर्यः, सुधीः सुष्ठु बुद्धिस्तस्या इरा स्थानमिति ॥ २४ ॥ एवं प्रागुक्तप्रकारेण आद्यन्तपादयमकत्वेन यमकानां मिथः सम्पुटीभवनाः सम्पुटाख्या येऽसमतमा निरुपमा यमकास्तैः संस्तुताः स्तुतिविषयीकृताः सन्तो नाभिप्रभृतिजिनवराः श्रीनाभेयादिजिनेन्द्राः बोधिः सम्यक्त्वं, ज्ञानं जिनधर्मावाप्तिर्वा स एव महत्वाद् व्रतं मह्यं मे ददतां वितरन्तु श्रागचिराद्, बोधिरनं किंभूतम् ? सिद्धिश्रीर्मोक्षलक्ष्मीः, यद्वा सर्वमनश्चिन्तितार्थावाप्तिः श्रीलक्ष्मीस्तत्र कार्मणमिव कार्मणं कार्मणवत् सिद्धि • श्रीवशीकारकमित्यर्थः । तथाऽतिगुरु अतिशयेन गौरवाहं अत एव दुःखेन लभ्यते दुर्लभम् । नाभिसूनुप्रभृतिजिनवराः किंविशिष्टाः ? षोडशाऽष्टौ च चतुविंशतिमिता इत्यर्थः । तथा विश्वे जातावेकवचनत्वेन विश्वत्रये विशेषेण ख्याताः प्रसिद्धाः, यद्वा विश्वा संपूर्णा या ईर्लक्ष्मीस्तया विख्यातास्तथा रविशशिभव+ नव्यन्तरस्वर्गिराजां सूर्येन्द्रभवनपतिव्यन्तरनाकिराजानां 'कृत्यस्येवे' त्यनेनाऽत्र षष्ठी, मह्यं पूजनीयं क्रमाब्जं पदपद्मं येषां ते महाक्रमाब्जा: । अत्र मं येति शब्दस्य देवदत्तस्य गुरुकुलमित्यादिवत् सम्बन्धिशब्दत्वाद् वृत्तावपि रविश शीत्यस्य सापेक्षत्वमवसेयम्, संस्तुता मयक्रमाब्जा वा । कया ! भूरिभक्त्या प्रभूतवासनयेति ॥ २५ ॥
॥ इति धर्मशेखरगणिकृतस्तवावचूरिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org