________________
१३४
श्रीमल्लेखेनमयाऽपदघनरुचिमाराऽज मानासमाऽरं
श्रीमल्ले ! खेन मह्यामद घनरुचिमा राजमानासमारम् । नाकंपापेन न त्वाऽजितम हस मताकारसौम्यं सुदृष्टिं ना कं पापेन नत्वाऽऽजितमह समताकार सौम्यं सुदृष्टिम् १९
किंभूतम् ? अपनाशं अपगतक्षयं, नाम कीदृशम् ? काममत्यर्थं कामं स्मरं समायं मायासहितं जयदमिभवत् । कामं कीदृशम् ? श्रीः शोभा श्रीलक्ष्मीस्तयोजतं समूहमपनाशयति यस्तं श्री० । अरं शीघ्रं गदरं रोगहं नाम, पुनः किंभूतम् ? श्रेयः शुभं, प्रजां जनतां पातीति प्रजापं, मा श्रीरयो भाग्यं सह ताभ्यां अस्तीति समायम्, यद्वा जगत् कीदृक् ? माझ्याभ्यां श्रीभाग्याभ्यां सहाऽस्ति, यद्वा समः सम्पूर्णोऽयो भाग्यं यस्य तत्समायम्, अत एव नास्त्यापदस्येत्यनापत् आप्तरूपं कामं वा, केषां ? जन्तूनां देहिनामिति ॥ १८ ॥ हे श्रीमद्भिः सश्रीकैलैखानां देवानामिनैरिन्द्रेय पूज्य ! हेsसदष्टमदस्थानमुक्त ! घनो मेघस्तद्वद्या रुचिमा कान्तिश्रीस्तया राजते इति हे घ० ! हे श्रीमले श्रीमल्लिजिन ! मह्याः पृथ्व्या आमो रोगस्तं दाति लुनातीति कचिद्देहे मह्यामद मां श्रियं रातीति हे मार ! हेऽज ! हे मानेन पूजयाऽसम निरुपम !
sea हास्यमुक्त ! हेऽकम्प धीर ! इन स्वामिन् ! घना निबिडा रुचिर्वासना यत्रैवं त्वा त्वां नत्वाऽरं शीघ्रमत्यर्थ वा, ना पुमान् कं सुखं न नाप अपितु प्रापैवेति । त्वां किंभूतं ? न सह मारेण स्मरेणाऽस्ति यस्तं । अस० तथा पापेन कुमार्गगमनाद्दृष्टेन खेन यको निष्पन्न इतिवदत्राऽपि जातावेकवचनादिन्द्रियजात्याऽजितं अनभिभूतं, सर्वजनलोभनसेचनकरूपतया मतः सम्मतः आकारः संस्थानादिविशेषस्तेन सौम्यं सोमोपमं, सुष्ठु दृष्टी नयने यस्य तम् सु० ! 'दुर्भिक्षमारी ति निजान्यचक्रभीवैरामयादृष्ट्यतिवृष्टियष्टकं (९) । शते च साधे जिन यो जनानां तव प्रभावान्न भवेदिति वचनादाजितमं खपरचक्रोद्भवं प्रकृष्टं रणं हन्ति अपाकरोति यस्तं आजि०, समतां साम्यं कारयतीति समताकाराः केवलिनस्तेषु सौम्यं जिनेन्द्रत्वान्मनोज्ञं, सुष्ठु दृष्टिः शासनमस्य तं सु० इति ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org